________________
कातन्त्रव्याकरणम्
अथ सवर्णे दीर्घस्य विहितत्वादसवर्ण एव यत्वमवगम्यते, किमसवर्णग्रहणेन ? न च निर्निमित्तस्य यत्वं स्यादिति वक्तव्यम्, न च परो लोप्यः' इति प्रतिषेधात् । नहि निर्निमित्तस्य यत्वे " न च परो लोप्यः " (१।२।८) इति प्रतिषेध उपपद्यते, परस्यैव निमित्तस्याभावात् ? सत्यम् ' न च परो लोप्यः' इति चकारोऽयमन्वाचयशिष्ट इति शङ्केत । ततो निमित्तमन्तरेणापि यत्वं स्यादित्याह - असवर्ण इति किम् ? दधीति ।। ३१ । [क० च०]
१४८
इवर्णः। यमित्यस्वरोऽयं निर्देश : " तद् वेत्त्यधीते वा" (२।६।८) इति ज्ञापकात् । आदेशिन एकवर्णत्वाद् आदेशोऽपि एकवर्ण एवेति साम्प्रदायिकाः । वस्तुतस्तु श्रुतत्वादेवायमस्वर इति अकारलोपे ( प्रमाणाभावात्) समानाभावात् । को हि दृष्टपरिकल्पनां विहाय अदृष्टं परिकल्पयतीति । समिदत्रेत्यादि । ननु कथमत्र परत्वमुभयोः सावकाशत्वाभावात् । तथाहि यत्वस्य दध्यत्रेत्यादिषु सावकाशता, तृतीयस्य च न कुत्रापि । अत्र केचित् परशब्दोऽत्र श्रेष्ठवचनः, श्रेष्ठत्वं चापवादत्वादेव, न तु सूत्रयोः पूर्व-परत्वविवक्षामात्रेण । विप्रतिषेध एव परस्परसावकाशत्वादित्याहुः । अन्ये तु दध्येतद् इत्यत्र यत्वस्य चरितार्थता । वाग्गत इत्यत्र तु तृतीयस्य यस्य वर्णस्य यत्वं विधातव्यम्, तद्वणपिक्षया गकारस्य समानो वर्ण इति न्यायात् सवर्णत्वाभावादस्य सूत्रस्य विषयो नास्तीति । अतस्तृतीयविधेः सावकाशत्वमस्तीति । नहि यत्र वर्णग्रहणम् अस्ति तत्रैव व्यञ्जनस्य सवर्णव्यवहारः इति हेमकरशपथः समादरणीय इत्याहुः ।
वयमिदमालोचयामः- इवर्णग्रहणाभावे किमपेक्षया असवर्णत्वं प्रतिपत्तव्यमिति विचार्यताम् | यदि यत्किञ्चित्पदापेक्षया असवर्णत्वमित्युच्यते तदा 'दध्यत्र' इत्यादिषु यत्वप्राप्त्यभावः स्यात् प्रयोगान्तरस्थिताकारापेक्षयाऽकारस्य अवर्णस्यापि विद्यमानत्वात् । नच वक्तव्यम् एकस्मिन् प्रयोगे उभयोः सत्त्वे सत्यन्योऽन्यापेक्षयाऽसवर्णव्यवहार इति ह्रस्वसूत्रे तस्य दूषितत्वात् । कथमन्यथा सवर्णस्य पूर्वी ह्रस्व इत्युक्ते, अकारादिमात्रस्य ह्रस्वसंज्ञा स्यात् । तस्मात् तत्रावश्यं वक्तव्यं प्रयोगान्तरापेक्षया सवर्णत्वं पूर्वत्वं च इत्त्यं पचतीति असङ्गतमिति । तस्मात् “तवेत्त्यधीते वा” (२।६।८) इति ज्ञापकमुन्नेयम् । यत्किञ्चिदपेक्षया स सवर्णव्यवहार इति । नापि यस्य यत्वं विधातव्यं तदपेक्षयाऽ सवर्णत्वमिति वाच्यम् । तस्यानियतत्वादिति समिदत्रेत्यस्य सवर्णत्वाभावाद् अभावस्य प्रतियोग्युपस्थापकत्वात् । किन्तु यकारस्य तालव्यत्वेन श्रुतत्वात्तज्जातीयो यावान् वर्णः स सवर्णः, स च इवर्ण एव, तद्मिन्नोऽसवर्णो वेदितव्य इति ।