________________
सन्धिप्रकरणे द्वितीयः समानपादः
३१. इवर्णो यमसवर्णे न च परो लोप्यः ( १।२।८ )
[ सूत्रार्थ ]
१४७
इवर्ण के स्थान में यकारादेश होता है, यदि इवर्ण से परवर्ती स्वर सवर्णसंज्ञक न हो । परन्तु यहाँ परवर्ती वर्ण का लोप नहीं होता है || ३१ |
[दु० पृ० ]
इवर्णो यमापद्यते असवर्णे, न च परो लोप्यः । दध्यत्र । नद्येषा । इवर्ण इति किम् ? पचति । असवर्ण इति किम् ? दधि ॥ ३१।
[दु० टी०]
इवर्णो० । अथ इवर्णग्रहणं किमर्थम् ? अधिकृत इवर्णो यत्वमापद्यते इति चेत्, तन्न । “अवर्ण इवर्णे ए" (१।२।२) प्रभृतिभिराघ्रातत्वाद् उवणदिश्च स्थानिनो वत्वादिभिरिति । समिदत्रेति परत्वात् तृतीयोऽस्ति बाधक इति । यत्रापदान्तस्तर्हि तत्र दोषः । पचतीति। सवर्णे दीर्घ इत्यसवर्णे यत्वादिविधिरवगम्यते । असवर्णग्रहणं "न च परो लोप्यः” (१ । २ । ८) इत्यन्वाचयशिष्टाशङ्कानिरासार्थम् । अन्यथा निर्निमित्तमपि यत्वं स्यात् । च्विप्रत्ययपक्षेऽपि परत्वात् स्वभावदीर्घस्य यत्वं स्यादिति न परिहारः । यतः समानग्रहणसामध्यदिव परलोप इति परग्रहणमिवर्णस्यावर्णे लोपार्थम् । मृग्या इदं मांसं मार्गम्। तत्रेवर्णग्रहणं सवर्णार्थं यकारार्थं च । खरनर्दिनोऽपत्यमिति बाह्वादित्वाद् इणू, "नस्तु क्वचित् " ( २ । ६ । ४५) इति नलोपः खारनर्दिः । कपौ साधु कप्यमिति इकारलोपः। लोप्यग्रहणं च सुखार्थमेव ।। ३१ ।
[वि० प० ]
इवर्ण० । अथ किमर्थमिवर्णग्रहणम् ? प्रस्तुतत्वादिवर्णो यमापद्यते इति चेत्, नैवम् । असवर्णे परे “अवर्ण इवर्णे ए” (१ । २ । २) इत्यादिभिराघ्रातत्वात् । अथोवर्णादिः प्रसङ्गः इति चेत्, तदयुक्तम् । “वमुवर्णः” (१ । २ । ९) इत्यादीनां विषयत्वात् । ' समिदत्र' इत्यादावपि तकारादेर्व्यञ्जनस्यासवर्णे परे कुतो यत्वप्रसङ्गः । यस्माद् " वर्गप्रथमा० " (१।४।१) इत्यादिना परत्वात् तृतीयोऽस्ति बाधक इति । किञ्च 'स्थानेऽन्तरतमः' ( काला० परि० २४ ) इति न्यायात् तालव्योऽयं यकार इवर्णस्यैव तालव्यस्य भविष्यति, तर्हि चकारस्यापि स्यादित्याह - इवर्ण इत्यादि ।