________________
सन्धिप्रकरणे द्वितीयः समानपादः
२७. ऋवर्णे अर् (१।२।४)
१३३
[सूत्रार्थ]
ॠवर्ण के पर में होने पर अवर्ण के स्थान में 'अर्' आदेश तथा परवर्ती ॠवर्ण का लोप होता है ||२७|
[दु० वृ०]
अवर्ण ऋवर्णे परे ‘अर्’ भवति, परश्च लोपमापद्यते । तवर्कारः, सकरिण । ऋण – प्र – वसन – वत्सतर - कम्बल - दशानामृणे क्वचिदरोऽपि दीर्घता । ऋणार्णम्, प्रार्णम् इत्यादयः । ऋते च तृतीयासमासे । शीतेन ऋतः शीतार्तः । ऋति धातोरुपसर्गस्य दीर्घः । प्रार्च्छति । नामधातोर्वा । प्रार्षभीयति । प्रर्षभीयति ||२७|
[दु० टी० ]
ऋवर्णे० । ऋणे ऋणम् ऋणार्णम्, प्रार्णम् इत्यादयः इति । वसनार्णम्, वत्सतरार्णम् । वत्सरे वर्षे वा ऋणम् । वत्सरार्णम् इत्यन्ये । दशार्णम् । दशार्णो देशः, दशार्णा नदी । ऋणं जलदुर्गभूमिरिति । यथायोगं समासे क्वचिद् बहुलं ह्रस्वस्य दीर्घतेति । ऋते च तृतीयासमासे इति । ऋत इति किम् ? दुःखेन ऋच्छको दुःखर्च्छकः । तृतीयासमास इति किम् ? परमर्तः, उत्तमर्तः । ऋति धातोरुपसर्गस्येत्यादि । धातोरिति किमर्थम् ? इह मा भूत् - प्रर्षभं वनम् । प्रगता ऋषभा यस्मादिति । प्रर्च्छको देशः । प्रगता ऋच्छका यस्मादिति ।
ननु यां क्रियां प्रति प्रादयो युक्तास्तां प्रत्युपसर्गा इति लोकोपचारादनुगतार्थः। इदं तर्हि प्रयोजनम् - ऋति समानस्य ह्रस्वः प्रकृतिभावश्चेष्यते । खट्वा + ऋष्यः खट्वर्ष्यः । नदी + ऋष्यः नद्यृष्यः । अस्मादुपसर्गस्यारेव यथा स्यात् । प्रकृतिर्मा भूदिति चेत्, न । एते हि सूत्रनिर्देशा ज्ञापयन्ति - विवक्षितश्च सन्धिर्भवति इति । तथा च वक्ष्यति – क्वचिद् ग्रहणस्येष्टविषयत्वाद् बहुलम्, तत्र ह्रस्वो व्याख्यातव्य एव । तथा समानस्य नामिनोऽसवर्णे स्वरे वा प्रकृतिः ह्रस्वश्चासमास इति न वक्तव्यमेव ।
दधि + अत्र | दध्यत्र | कुमारी + अत्र । कुमारि अत्र, कुमार्यत्र । समासे तु नित्यमेव दध्योदनम्, कुमार्याकारः । तथा अधीते, व्युदस्यतीति उपसर्गाणामपि नित्यम् एव ।