________________
१३४
कातन्त्रव्याकरणम्
तथा चाह - 'पदयोः सन्धिर्विवक्षितो न समासान्तरङ्गयोः' (सं० बौ० वै०, पृ० २२४, २२८, २३२), तस्माद् धातोरिति सुखप्रतिपत्त्यर्थमेव वृत्तौ निगदितमिति ।।२७।
[वि० प०]
अवर्णे० । ऋणेत्यादि । एषाम् ऋणशब्दे परे योऽरादेशस्तस्य दीर्घो न वक्तव्यः, 'ह्रस्वस्य दीर्घता' इत्यनेनैव सिद्धत्वात् । तत्र हि क्वचिदधिकाराल्लक्ष्यानुरोधो दर्शित इति । एतदेव क्वचिद् इत्यनेन सूचितम् । ऋणार्णम्, प्राणम् इत्यादय इति । ऋणस्य ऋणम् ऋणार्णम् । प्रकृष्टं प्रगतं वा ऋणम् प्राणम् । एवं वसनस्य ऋणं वसनार्णम्, वत्सतरस्य ऋणं वत्सतरार्णम् इति भवति । कम्बलस्य ऋणं कम्बलार्णम्, दशानाम् ऋणं दशार्णम् । एवं दश ऋणानि यस्मिन् यस्यां वा दशार्णो देशः, दशार्णा नदी । अत्र ऋणशब्देन जलदुर्गभूमिरुच्यते । यथायोगं समासः सर्वत्र भवति ।
ऋते चेति । शीतेन ऋतः शीतार्तः इति पूर्ववदिहापि दीर्घ इत्यर्थः । ऋत इति किम् ? दुःखेन ऋच्छकः दुःखर्छकः । तृतीयासमास इति किम् ? परमश्चासौ ऋतश्चेति परमर्तः । ऋति धातोरिति । धातोः ऋकारे उपसर्गस्य पोऽरादेशस्तस्य तथैव दीर्घ इत्यर्थः । धातोरिति किम् ? प्रगता ऋषभा यस्मात् तत् प्रर्षभं वनम् । ननु "यक्रियायुक्ताः प्रादयस्तमेव शब्दं प्रति उपसर्गाः" (उपसर्गाः क्रियायोगे-पा० १।४।५९) इति कथमत्र प्राप्तिः। प्रशब्दस्य गतिक्रियासम्बन्धस्यात्र उपसर्गत्वाभावादेव न भविष्यति किं धातुग्रहणेन ? सत्यम् । धातोरिति वृत्तौ सुखार्थमेव दर्शितम् । नामधातोर्वेति । ऋषभमिच्छतीति "नाम्न आत्मेच्छायां यिन्" (३।२।५), "यिन्यवर्णस्य" (३।४।७८) इतीत्त्वम्, "ते धातवः" (३।२।१६) इति धातुत्वे पश्चादुपसर्गेण संयोगः ।।२७। .. [क० च०]
ऋवर्णे। प्रकृष्टं प्रगतं वेति “गतिप्रादयः" (पा० २।२११८) इति समासेऽरादेशे कृतेऽसिद्धवद्भावान्न रेफस्य विसर्गः । अन्ये तु इति । चन्द्रगोमि-काशिका - जिनेन्द्रबुद्धिप्रभृतयः। इदं तु न युक्तम्, पतञ्जलिशाकटायनादिभिर्वत्सतरस्यैवेष्टत्वात् । तथा च श्रीपतिः - तरप्रत्ययोऽत्र भाष्यादावुक्त इति भाष्यचान्द्रयोर्विरोधे उभय एव प्रमाणमिति युक्तमुत्पश्यामः । ननु नदीदेशयोर्ऋणस्याभावात् कथं दशार्णा नदीत्यादि इत्याह - ऋणशब्देन इत्यादि । अधमोत्तमयोरुत्तमर्णाविति वररुचिः।