________________
कातन्त्रव्याकरणम्
[क० च०]
अवर्णः। वर्णशब्दोऽयमित्यादि । एतदाचार्यपारम्पल्लिब्धम् । अतः समानत्वात् सवर्णः सजातौ इति सूत्रं न वाच्यम् । समानेभ्य इति । समानग्रहणमिह ह्रस्वमात्रपरम्, आवर्णादिव्यवहाराभावात् । यद्यपि वर्णशब्देनात्र समुदायस्योक्तत्वात् सवर्णाववोच्येत, तथापि (प्रयोगे) सवर्णावयवस्यैकस्यापि सवर्णव्यवहारः, कथमन्यथा “अवर्ण इवणे ए" (१।२।२) इत्यादिषु प्रवर्तते । चकाराधिकारादिति वृत्तिः । हल - लाङ्गलयोः समानोऽर्थः । ईषा लाङ्गलदण्ड | मूर्धन्योपधोऽयमिति सुभूतिः। एवं च मूर्धन्योपधत्वे नित्यमेव पूर्वलोपः, यदा तु “प्रभुशङ्करयोरीशः स्त्रियां लाङ्गलदण्डके" (उद्, अ०रामा० २।९।१४) इति तालव्योपधस्तदा अस्मिन् पक्षे विकल्पः प्रतिपत्तव्यः।
तथा च श्रीपतिरप्याह - ईशेस्तु तालव्यान्तादप्रत्ययः, 'हलीशा, लाङ्गलीशा' एतौ विभाषयेति मतम् । मनीषेति । अत्र मूर्धन्यषकारः 'ईष गतौ' (१।४३३) इत्यस्माद् युविषये अप्रत्यय इष्यते । मनीषा वृत्तिरिति प्रदीपपारायणाभ्यामुक्तम् । अथेत्यादि । नहि सस्य विसर्गे सति "अपरोलोप्योऽन्यस्वरे०" (१।५।९) इति कृते पश्चादकारलोपः कार्यः। विसर्जनीयलोपे पुनः सन्धिनिषेधात् न चकाराधिकाराद् बाधकः कार्यः । चकाराधिकार इत्यस्य ‘हलीषा' इत्यादावेव चरितार्थत्वादित्याह - सकारलोपः कथम् इति । ननु कथम् उक्तं संयोगान्तलोप इति, अनुषङ्गलोप एव प्राप्नोति ? सत्यम् । सकारेण व्यवधानाद् अकारस्यैव कथं लोपः ? कथमित्यनेनैव सर्वं निराकृतमिति | अथवा अकारलोपे सति “असिद्धं बहिरङ्गमन्तरङ्गे" (कात० परि० ३५) इति 'न्यायादनुषङ्गलोपो न भवति, संयोगान्तलोपस्तु भवत्येव बहिरङ्गत्वात् ।
यद् वा अक्रुञ्चेत् इति निषेधात्तज्जातीयनकारस्यैव लोपः । तज्जातीयत्वं तु उपदेशकाले एवानुषङ्गत्वमिति ।
वस्तुतस्तु यद्यकारलोपः स्यात्तदा लुप्ताकारस्य स्थानिवद्भावादनुषङ्गसझैव नोपपद्यत इति कुतोऽनुपपत्तिः । सत्यमित्यादि । ननु चकारेणाव्यवहितपूर्वस्य लोपस्यैव समुच्चीयमानत्वात् कथं स व्यवहितं समुच्चिनुयादित्याह - लोकोपचाराद् वा इति ।
काशकृत्स्नप्रभृतिभिराचार्यैर्नकारस्य संज्ञेयमन्वाख्याता – “अनुनासिकोऽनुषङ्गः" (का० धा० व्या०, सू०७); "पूर्वाचार्यसंज्ञेयं नकारस्य" (म० भा० दी०, पृ० १३४); "नकारस्योपधाया अनुषङ्ग इति पूर्वाचार्यैः संज्ञा कृता" (न्या० १।१।४७)।