________________
१२९
सन्धिप्रकरणे द्वितीयः समानपादः
१२९ २५. अवर्ण इवणे ए (१।२।२) [सूत्रार्थ]
इवर्ण के पर में रहने पर अवर्ण के स्थान में 'ए' आदेश होता है तथा इवर्ण का लोप ।।२५।
[दु० वृ०]
अवर्ण इवणे परे एर्भवति परश्च लोपमापद्यते । वर्णग्रहणे सवर्णग्रहणम् । तवेहा, सेयम् । चकाराधिकारोऽनुक्तसमुच्चयार्थस्तेन क्वचित् पूर्वोऽपि लुप्यते । हलीषा, लाङ्गलीषा, मनस ईषा मनीषा ||२५|
[दु० टी०]
अवर्णः। लोके गुणाक्षरजातिषु वर्णशब्दो दृश्यते । कथं पुनः समानेभ्यः श्रुतो वर्णशब्दः सवर्णग्राहक इति । सवर्णग्राहकश्चेदाचार्यव्यवहारादित्युक्तमेव । अर्थाश्रितं च यथासङ्ख्यं न भवति, सवर्णाभावे क्रमस्यानादरात् । अत एव व्यस्तमुदाहृतमिह दीर्घस्य ह्रस्वे ह्रस्वस्य दीर्घऽपीति । मनस ईषा मनीषा इति सलोपोऽपि वक्तव्यः । अथाकारलोपे संयोगान्तलोप इति चेद् अतिपूर्वत्वादकारस्य कथं लोपः। तर्हि लोकोपचाराद् भविष्यति ।।२५।
[वि० प०]
अवर्णः। वर्णग्रहणे सवर्णग्रहणमिति । वर्णशब्दोऽयं स्वभावात् समानेभ्यः श्रुतो यस्य वर्णस्य येन वर्णेन सह सवर्णसंज्ञा तयोः समुदायमाह - एतेन यथासङ्ख्यमपि निरस्तं भवति । न ह्यवर्णादिशब्दो ह्रस्वदीर्घक्रमेण व्यवस्थितं वर्णमाह। किन्तर्हि सवर्णव्यवहारश्च व्यतिक्रमेणापि निश्चित इति कुतो यथासङ्ख्यम् । अत एव ह्रस्वस्य दीर्घस्य च दीर्घ ह्रस्वे च दर्शितमिति । चकार इत्यादि । मनस ईषा मनीषेति षष्ठीसमासो दर्शितः । एवं पूर्वयोरपि शब्दयोः प्रतिपत्तव्यम् । अथ मनसः सकारलोपः कथं स्यात् नकारस्याकारलोपे सति संयोगान्तलक्षण इति चेत्, न । सकारेण व्यवधानादकारस्यैव लोपः कथं स्यात् ? सत्यम् । अत एव चकारस्यानुक्तसमुच्चयार्थत्वात् लोकोपचाराद् वा सकारस्यापि लोप इति ।।२५।