________________
सन्धिप्रकरणे द्वितीयः समानपादः
१२५ यद्येवमिति सम्बन्धोऽपि कथं सम्भवतीत्यर्थः। तस्मादित्यादि । सम्बन्धसिद्ध्यर्थमिति भावः। उपचर्यते भूतपूर्वस्य वर्तमानत्वोपचार इत्यर्थः । उपचारस्यावश्यकत्वमाह - तथा च इति । ननु अकारस्येत्यादि । अत्र कथं स्वरस्यैव दीर्घ इत्यवधार्यते सवर्णवचनात्, न ह्यस्वरस्य सवर्णः कश्चिदस्ति, येन व्यञ्जनस्य दीर्घः स्यादिति । ननु वाक्कल्प इत्यादिषु ककारे ककारस्य दीर्घः कथं न स्यात्, तथाह वर्गसंज्ञाविधौ वर्गान्तरस्यासवर्णत्वं प्रतिपादितम् । अतः सवर्गव्यञ्जनस्य सवर्णत्वमस्त्येव, तदयुक्तम् । अभिप्रायापरिज्ञानाद् यत्र वर्गग्रहणमस्ति तत्र वर्गान्तस्य सवर्णत्वम्, नतु सर्वत्र ।
तथा च "चवर्गस्य किरसवर्णे" (३।६।५५) इत्यत्र हेमकरण शपथः कृतः, तन्न । अन्यथैव सिद्धेः शपथस्यायुक्तत्वात् । तथा हि सवर्णशब्देन हि शास्त्रे स्वर एव संकेतितः, नहि सम्भवे सति योगार्थमादाय व्यञ्जने प्रतीतिर्भवितुमर्हतीति । नहि ‘पङ्कजमानय' इत्युक्ते संकेतितार्थं परित्यज्य केनचित् कुमुदमानीयते । किञ्च 'कृत्रिमाकृत्रिमयोः कृत्रिमो विधियाय्यः' (व्या० परि० वृ०६) तस्मात् सवर्ण इति वचनात् स्वरस्यैव दीर्घ इत्यवधारितम् । अर्थाद् इत्यादि । सवर्णग्रहणाद् इत्यर्थः समानस्य सवर्णव्यवहारादिति भावः।
अथ समानग्रहणाभावे सवर्णे परतः इत्युक्ते सवर्ण एव लभ्यते, ततः सन्ध्यक्षराणां परभागस्य इकारोकारत्वात् 'अग्ने इन्द्रः' इत्यादौ दीर्घः कथं न स्यादित्याह - न ह्यसमानस्य इति । तथाहि सन्ध्यक्षरप्रस्तावे टीकायामुक्तम् - 'अग्ने इन्द्रः, पटो उदकम्' तत्र समानदीर्घः प्राप्तः, किन्तु केवलानां समानसंज्ञाविधानान्न भवति । दीर्घादित्यादि । आदिग्रहणाद् ‘अग्ने आह, पटो आगच्छ' इत्यादिषु यत्वादिकमपि न भवतीत्यर्थः । अत्र अयाद्यादेशाः सन्ति बाधका इति चेत्, न । 'अग्ने इन्द्र' इत्यत्र समानस्य दी? नास्तीति निश्चितमेव । अतस्तत्रैवायादेशस्य चरितार्थत्वमिति ।
यद् वा आदिशब्देन सन्ध्यक्षराणां सवर्णव्यवहारो नास्तीत्युच्यते अव्यवपृक्तसमानस्यैव सवर्णसंज्ञाविधानाद् इदमेव युक्तमुत्पश्यामः । सूत्रे सवर्णदीर्घयोः स्वरसंज्ञयैव प्रस्तुतत्वात् । अन्ये तु आदिशब्देन ह्रस्वव्यवहारोऽपि नास्तीत्याहुः । तन्न । "सन्ध्यक्षराणामिदुतौ हस्वादेशे" (कालापपरि०,परि० ९५) इति ह्रस्वव्यवहारदर्शनादिति | अथाकारलोपमजसि इति क्रियतां तदा 'वृक्षाः' इत्यत्रानेन दीर्घः परलोपश्च भविष्यति किं समानग्रहणमित्यत आह - किं च इति ।