________________
१२४
कातन्त्रव्याकरणम्
व्यक्तिरस्ति, अत एवानयोरत्यन्तं भेद इति केचित् । एतच्च नातिपेशलम् । एतच्च तैरेवावगम्यते नास्माभिरिति ।
वस्तुतस्तु ह्रस्व एव धर्मी भविष्यति इति सिद्धान्तवादिनो मतं निरसितुमाह - हस्वदीर्घयोः इति । अतो नास्ति पूर्वपक्षावसरः । ननु वर्णः कथं धर्मी स्यात्, यथा ह्रस्वदीर्घयोर्मेदस्तथा वर्णानामपि नानात्वाद् भेद इति ? सत्यम्, वर्णशब्देनात्र वर्णत्वमुच्यते इति न दोषः । ननु तर्हि जातेरिव कारणाभावात् कथमेतत् संगच्छते ? सत्यम्, भेदाभेदस्वीकारः कर्तव्यः । तथाहि भेदस्वीकारे धर्मिकल्पना, अभेदस्वीकारे वर्णत्वं (धर्म) इति नास्ति पूर्वपक्षावसरः इति विकारः सिद्धः । इदानीमादेशवादिनो मतमाह - आदेश इति । अत्रापिशलीयश्लोकः
आगमोऽनुपघातेन विकारश्योपमर्दनात् ।
आदेशश्च प्रसङ्गेन लोपः सर्वापकर्षणात् ॥ ननु विकारादेशयोः को भेदः, द्वयोरेव प्रकृतिविनाशप्रवर्तमानत्वात् ? उच्यते - वर्णस्य स्थाने भवन् विकार उच्यते, शब्दस्य स्थाने भवन् आदेश इति । अत एव 'तिस्रः' इत्यत्र न षत्वम् अविकारित्वादिति । कुलचन्द्रस्तु- नन्वस्मिन्नेव सूत्रे अवर्णस्य स्थाने कृतस्यापि दीर्घस्य उभयव्यपदेशात् । किञ्च "नामिकरपरः" (२।४।४७) इत्यस्य टीकायां शब्दस्य स्थाने कृतस्यापि आदेशस्य विकारशब्देनोक्तत्वात् । तथाहि - आगमसाहचर्याद् विकारस्यापि सकारस्यैव न पुनरनेकवर्णस्येति, तेनात्र तिसृभिरित्यत्र न षत्वमिति, तस्मादिति भेदेन नामभेद इति युक्तं टीकापञ्जीकृद्भ्यां पुनर्मतद्वयमवलम्ब्य व्याख्यातमिति । ननु ह्रस्व इत्यादि । ह्रस्वकाल इति ह्रस्वोच्चारणकाल इत्यर्थः । सम्बन्धोऽस्त्येवेति बाध्यबाधक इत्यर्थः ।
वर्तमानविवक्षाप्यस्तीत्ययमभिप्रायः- तदस्यास्तीति सूत्रे यत्र क्रियापदं नास्ति, तत्रास्तिर्भवतिपरः प्रयुज्यते इति न्यायात् प्राप्तमिति यत् पुनरुक्तं भवतीति तद् बोधयति-सूत्रे लिङ्ग संख्या कालश्चातन्त्राणीत्यादिन्यायोऽस्मिन्नस्तीत्याह - तद्विवक्षाप्यस्तीत्यनेन प्रथमान्तस्य वर्तमानताऽवगम्यते, सा पुनरत्र दीर्घस्य वर्तमानता वर्तत एव तत् कथमिदमुक्तम् ? नैवम् । तदस्यास्तीतीदंशब्देन षष्ठ्यन्तस्यापि वर्तमानता सूच्यते तत्सम्बन्धिनो वर्तमानता विकृतेन स्तीत्याह - न च ह्रस्वकाले दीर्घस्य वर्तमानता सम्भवतीति । अत्र दीर्घकाले ह्रस्वो नास्तीत्यपि बोध्यम् ।