________________
१२३
सन्धिप्रकरणे द्वितीयः समानपादः समूहिसम्बन्धे षष्ठी | समूहश्चात्र वर्णद्वयात्मक एव, तेन सवर्णसमुदायविषयकान्ता दश प्रकारास्तत्र कुतः षट्प्रकारापन्नत्वमिति अनुगतैकधर्मोऽस्ति ।
ननु कथमेतद्, यावता समानसंज्ञाघटिता हि सवर्णसंज्ञा, यथा द्वौ द्वौ समानौ सवर्णौ भवतः इति समानत्वं च सवर्णघटितमुच्यते, अत इतरेतराश्रयदोष इति, सत्यम्; सवर्णत्वं हि समानघटितं न कर्तव्यं किन्तु दशानां मध्ये यौ द्वौ द्वौ तौ सवर्णाविति तत्र व्याख्यातमिति नास्तीतरेतराश्रयदोष इति । ननु समान एव धर्मित्वेन कथं न कल्प्यते इति चेत्, वर्णस्य धर्मित्वकल्पनेऽपि समानत्व एव तात्पर्यमिति बोध्यम् ।
ननु सप्तमी निमित्त इति सूत्रमस्मन्मते नास्ति तत् कथमिह निमित्तसप्तमी ? सत्यम्, उपश्लेष – लक्षणा सप्तमी | उपश्लेषः संयोगः, यद्यपि शब्दानां गुणत्वात् संयोगो न संभवति, नापि कटे आस्ते इतिवद् आधाराधेयभावः (समानस्य सवर्णस्थाने वृत्त्यभावात्) सम्भवति, नहि आधाराधेयं विना उपश्लेषो घटते, तथापि शास्त्रे वर्णानां द्रव्यवद्व्यवहार इति । यद् वा सवर्णसमीपो देशोऽपि सवर्ण इत्युच्यते । ततो घटत एवोपश्लेषः इति । यथा 'गङ्गायां घोषः' इत्येक उपश्लेषः । तर्हि 'दण्डाग्रम्' इत्यादौ अग्रशब्दस्यापि दीर्घः म्यात् चेत्, न । परश्च लोपग्रहणात् सप्तम्या निर्दिष्टे पूर्वस्येति ज्ञापितमिति कथमग्रशब्दस्याकारस्य दीर्घ इति ।
वस्तुतस्तु लोकोपचारान्निमित्तसप्तमी द्रष्टव्या । अन्ये तु "कालभावयोः सप्तमी" (२।४।३४) इत्यनेनैव सप्तमी सिद्धा । यथा सवर्णे परत्र स्थितेऽपीत्याहुः । अभूततद्भाव इत्यादि। अयमर्थः- अवस्थावतोऽवस्थान्तरेणाभूतस्य अजातस्य तदात्मना विकारात्मना भावे जन्मनि विर्भवति, कृभ्वस्तिषु परेषु तमादिदर्शनादिति । दीर्धीभवतीति ज्ञापकात् तमादौ च्चिप्रत्ययविधायकमिदं दृष्टं तस्मादित्यर्थेऽस्य च्वेरिति तदेव ज्ञापकमुन्नेयम् । प्रकृतीति । प्रकृतिश्च विकारश्चेति द्वन्द्वः । धर्माभावात् प्रकृतिविकारभावो नास्तीति भावः।
प्रकृतेर्विकार इति तत्पुरुषे प्रकृतित्वमस्त्येव, किन्तु तस्य विकृतिर्नास्तीति सम्भाव्यते । अथ ह्रस्वदीर्घयोरत्यन्तभेदोपलब्धेरित्यत्र कथमेको धर्मीत्यादेर्हेतुर्दत्तस्तस्मात् पूर्वपक्षवादिना ह्रस्वदीर्घयोर्धर्मत्वेन स्वीकारः कृतः। शुक्लीभवति वस्त्रम् इत्यादौ शुक्लकृष्णयोर्भेद एवेति । नैवम्, अभिप्रायापरिज्ञानात् शुक्लीभवति वस्त्रमित्यादौ शुक्लकृष्णशब्दौ धर्मिपरौ एकस्यां वस्त्रव्यक्तौ वर्तेते, तद्वद् हस्वदीर्घाभ्यां वर्तितुं कापि