________________
१२२
कातन्त्रव्याकरणम्
वक्तव्यम् = व्याख्यानं कर्तव्यम् । ऋकारलृकारयोः सवर्णसंज्ञा लोकोपचारात् सिद्धेति भावः।
ननु ह्रस्वस्य दीर्घो भवन् अर्थात् सवर्णस्यैव भविष्यति किं समानग्रहणेन ? न ह्यसमानस्य दीर्घादिव्यवहारोऽस्तीत्यत्राह-समानग्रहणम् इत्यादि । अनेन द्वयं विधीयतेदीर्घः परलोपश्च । तत्र श्रुतत्वादनेनैव यत्र दीर्घस्तत्रैव परलोपः स्यात् तेन 'वृक्षाः' इत्यत्र "जसि" (२।१।१५) इत्यनेन दीर्घविधानात् । किञ्च च्चिप्रत्ययपक्षे स्वभावदीर्घस्य दीर्घत्वाभावाद् 'नदीहा' इत्यादिष्वपि परलोपो न स्यात् 'संनियोगशिष्टानामेकस्यापायेऽन्यतरस्याप्यपायः' (सं० बौ० वै०, पृ० २२२) इति समानग्रहणम् । आदेशपक्षे तु वचनान्तरप्रणीतस्य स्वभावदीर्घस्य पुनर्दीर्घः परलोपार्थस्तदा समानग्रहणं स्थानिप्रतिपत्तिगौरवनिरासार्थम् ।।२४।
[क० च०]
समानः। अथ सवर्णग्रहणं किमर्थम् ? 'परश्च लोपम्' इति वचनात् सवर्ण एव निमित्तभावं प्रतिपद्यते ? सत्यम्, अन्वाचयशिष्टोऽपि चकारो भवितुमर्हति । यथा 'भो वटो ! भिक्षामट, यदि पश्यसि गां चानयेति, तदा निर्निमित्तेऽपि दी? भविष्यति । यद् वा श्रुतत्वात् सवर्णस्यैव लोपो यथा स्यात्, अग्रादेः समस्तस्य मा भूत् । ननु "समानः सवर्णे दीर्घः' इत्यप्येकदीर्घा भविष्यति । यथा अनेन मृपिण्डेन सहान्यमृपिण्डस्य घटः कर्तव्य इत्युक्ते एक एव घटः क्रियते । नैवं त्वगत्र, वागत्रेत्यादौ व्यवहितो दीर्घः प्राप्नोति, उपश्लेषलक्षणा सप्तमी नास्तीति ।
ननु ‘समानः' इति (समानानामनेकत्वात् ) कथमेकवचनम्, अनेकसाधनत्वे बहुवचनप्रसङ्गात् । नहि समानत्वं जातिरस्ति, समत्वेषु जातेरनङ्गीकारात् । न च जातेरेकत्वादेकवचनमिति वाच्यम् । समानेषु जातेरङ्गीकारेण केवलानां संज्ञाविधानात् । अन्यथा सन्ध्यक्षराणां परभागस्येकारोकारस्य समानत्वम्, तर्हि 'अग्ने इन्द्र पटो उत्तिष्ठ' इत्यादाविदुतोः परयोः समानदीर्घप्रसङ्गः स्यात् । न च 'अव्यवपृक्तेषु विधिदृष्टो न व्यवपृक्तेषु' इति वाच्यम्, टीकायां सन्ध्यक्षरप्रस्तावेऽस्यानङ्गीकरणात् । अत एवैषां जातेरभावात् टीकाकृता पञ्जीकृता च धर्मित्वेन कल्प्यते न तु समानत्वमिति अनुगतैकधर्माभावात् ? सत्यम् । (नहि नानार्थस्य हरिशब्दस्य युगपत् सर्वेषामभिधानेऽनुगतैकधर्मोऽस्ति, तद्वदत्रापि)। यथा हरिशब्देन आवृत्त्या नानार्था उच्यन्ते तथा अनेनापि नाना व्यक्तय उच्यन्ते । (यथा समानं मानं येषामिति समासवाच्ये येषामित्यत्र समूह