________________
सन्धिप्रकरणे द्वितीयः समानपादः
ऋकारस्य लृकारे दीर्घो वक्तव्य एव सवर्णसंज्ञाभावादिति पोतृकारः । चकारात् पूर्वलोपश्चेष्यते होतृकारः, पोत्तृकारः । ऋकारेऽप्येवम् - होतृकारः, पोतृकारः । लृति परे ॡरपि वक्तव्यः, पक्षे प्रकृतिश्च भवति । होत्लुकारः, होतृलृकारः । ऊर्ध्वरेफोऽयम् ऋकारः समुदाये ऋ इति होतृकारः । ऋकारेऽप्येवम्, यदि भाषायां दृश्यते । शकानामन्धुः कूपः शकन्धुः । सीम्नोऽन्तः सीमन्तः इति केशविन्यासे । कुलमटतीति कुलटा बहुगोत्र (अन्यत्र)- गमनवती स्त्री भण्यते । सर्वा हि स्त्री कुलमटति, कुलशब्देन विशेषणाद् वीप्सार्थो गम्यते । या कुलात् कुलमटतीत्यर्थः । एते हि रूढित एव सिद्धाः ।। २४ । [वि० प० ]
१२१
समानः। दीर्घीभवतीति । अदीर्घो दीर्घः सम्पद्यते इति “अभूततद्भावे कृम्वस्तिषु विकाराच्च्विः" (पा० ५।४।५०) इति तमादिनिपातनाच्च्विप्रत्ययः । अस्य च सर्वापहारी लोपः, “अकारस्य च्चौ च " ( पा० ७।४ । ३२ ) इतीत्वम् । ननु कथमत्र च्चिप्रत्ययः प्रकृतिविकारभावानुपपत्तेः ? यत्रावस्थितस्य धर्मिणः पूर्वधर्मनिवृत्तौ धर्मान्तरापत्तिस्तत्रायं प्रकृतिविकारभावः । यथा - 'शुक्लीभवति वस्त्रम्' इति ।
अत्र तु ह्रस्वदीर्घयोरत्यन्तभेदोपलब्धेः नैको धर्मी कश्चिदिहानुगतोऽस्ति स तयोः प्रतिभासते । तदयुक्तम्, वर्णस्यैवावस्थाभेदेन विवर्तनात् । तथाहि प्राचीनां ह्रस्वावस्थामतिक्रम्य दीर्घावस्थां प्रतिपद्यमानो वर्ण एव धर्मी प्रतीयते । यथा दुग्धं दधीभवति, लौहं सुवर्णीभवति, गोरसत्व लौहत्वसामान्यानुगमात् च्चिप्रत्ययः सिद्धः, तथात्रापीत्यदोषः ।
आदेशवादी तु मन्यते – दीर्घो ऽस्यास्तीति इन्प्रत्ययः । समानसंज्ञको वर्णः सवर्णे परे दीर्घवान् भवतीत्यर्थः । ननु ह्रस्वकाले दीर्घो नास्ति दीर्घकाले ह्रस्वो नास्ति तत् कथमिन्प्रत्ययः ? सत्यम्, तथापि निवर्तमानस्य ह्रस्वस्य प्रवर्तमानेन दीर्घेण सम्बन्धोऽस्त्येव, यथास्यायमादेश इति । नहि संबन्धमन्तरेणास्येति षष्ठी लभ्यते । ननु तथापि कथं मत्वर्थीयप्रत्ययः, न ह्यसौ संबन्धमात्रे विधीयते किन्तर्हि तदस्यास्तीति साक्षाद् वर्तमानकाले निर्देशात् तद्विवक्षाप्यस्ति । न च ह्रस्वकाले दीर्घस्य वर्तमानता सम्भवतीति ।
,
यद्येवं सम्बन्धोऽपि कथम् ? न ह्यसति सम्बन्धिनि सम्बन्धसिद्धिरस्ति, तस्मात् सम्बन्धसिद्धान्यथानुपपत्त्या सम्बन्धिनोऽपि सिद्धिरुपचर्यते । तथा च आदेशी स्थानीत्यादयो बहुलं शास्त्रे प्रयुज्यन्त इति । ननु ऋकारस्य लृकारेण सह सवर्णसंज्ञाभावाद् दीर्घं न प्राप्नोति तत् कथमित्याह - 'होतृकार' इति । होतुः लृकार इति विग्रहः ।