________________
१२०
कातन्त्रव्याकरणम्
प्रयोगाविर्भावमात्रमेव फलमिति । आदेशवादी पुनराह-अस्त्यर्थे इन्नयमिति समानः सवर्णे दीर्घवान् भवतीत्यर्थः।
नन्वसमानकालानां वर्णानां कथं मत्वर्थीयो दीर्घा भवितुमर्हति ? नैतदेवम् । नहि निवर्तमानस्य प्रवर्तमानेन सह संबन्धो नास्ति । नहि संबन्धमन्तरेणास्यायमादेशः इति षष्ठी लभ्यते । प्रागेव स्थितो हस्वो दी? वा निवर्तते दीर्घः प्रवर्तते । तस्य हि प्रसङ्गे सत्यसौ प्रयुज्यते, सहानवस्थानं हि विरोधः, यथा भावाभावयोश्च , च्चिप्रत्ययानुपपत्तिः प्रकृतिविकारानुपपत्तेः । यत्रावस्थितस्य धर्मिणः पूर्वधर्मनिवृत्तौ धर्मान्तरापत्तिस्तत्रायं प्रकृतिविकारभावः, यथा शुक्लीभवति वस्त्रम् इति । न पुनरिह कश्चिदन्वयी सम्भवति यो निवर्तमानेन प्रवर्तमानेन च संगच्छते विकारकालाननुवृत्तेश्च ।
नहि कार्यकालमनुवर्तमानाः प्रकृतयः करणतां यान्ति । नहि विकृतिस्थाने प्रकृतय उच्चार्यन्ते । अनुच्चारितानां च कुतः सम्भवस्तासां पुनः प्रदेशान्तरदृष्टानामत्राप्रयोगोऽन्येषां च प्रयोगो दृश्यते । यदि पुनरयं च्चिप्रत्ययो दीर्घस्य कथं दीर्घो भवति ? नहि सोऽन्यथाभूतो दीर्घत्वमासादयति, मा भूत् । किन्नो बाध्यते इति चेत्, परलोपो नहि सन्नियोगशिष्टानामेकापायेऽन्यतरस्य प्रवृत्तिः ।
ननु शास्त्रे तत्र तत्र कथमभिधीयते "अवर्ण इवणे ए, इवर्णो यमसवर्णे न च परो लोप्यः" (१।२।२,८) इति ? नैष दोषः। उक्तत्वात् तेषां प्रयोगविषये प्रयुज्यमानास्त एव ते इत्युपचारितो व्यवहारो न पुनः प्रकृतिविकारभावो विवक्षित इति । "विकारस्थः सिः" (३।८।२६) इत्युपचारित एव । समानग्रहणं किमर्थम् ? ह्रस्वमात्रस्य मा भूदिति चेत्, न । दीर्घस्यापि दीर्घः करणीयः परलोपार्थः ।
एवं सति स्थानिप्रतिपत्तिर्गरीयसीति समानग्रहणम् । 'परश्च लोपम्' इति वचनात्, अर्थात् परिशिष्टसवर्ण एव निमित्तभावं प्रतिपद्यते सवर्ण (समान) ग्रहणं किमर्थम्, अन्बाचयशिष्टोऽपि चकारो भवितुमर्हति । यथा – 'भो वटो! भिक्षामट गां चानय' इति । तदा निर्निमित्तेऽपि दी| भवति । किं च श्रुतत्वात् सवर्णमात्रस्यैव लोपो यथा स्यात् । अग्रादेः समस्तस्य लोपो मा भूत् । “समानः सवर्णे दीर्घः' इति कृतेऽपि एक एव दी? भविष्यति । यथा लोके मृतपिण्डस्य मृत्पिण्डेन सह घटः कर्तव्य इत्युक्ते एक एव घटः क्रियते | नैवं सागतेत्यादौ बहुमात्रत्वाद् मृतव्यपदेशेऽपि दीर्घोऽन्तरतमः स्यात् । किं चात्र ‘वागत्र, त्वगत्र' (त्वामत्र, मामत्र) इति व्यवहितेऽपि दीर्घः प्राप्नोति । उपश्लेषलक्षणा सप्तमी नास्तीत्यतः परश्च लोपमिति वचनात् ।