________________
अथ प्रथमे सन्धिप्रकरणे द्वितीयः समानपादः २४. समानः सवर्णे दीर्घीभवति परश्च लोपम् (१।२1१ ) [सूत्रार्थ]
सवर्णसंज्ञक वर्ण के पर में रहने पर समानसंज्ञक वर्ण को दीर्घ होता है तथा उससे परवर्ती (सवर्णसंज्ञक) वर्ण का लोप हो जाता है || २४ ।
[दु० वृ०]
समानसंज्ञको वर्णः सवर्णे परे दीर्घीभवति परश्च लोपमापद्यते । दण्डाग्रम्, सागता । दधीदम्, नदीहते । मधूदकम्, वधूढम् । पितृषभः, कृकारः । क्लुकारेण । होतृकारः इति वक्तव्यम् । समानग्रहणमश्रुतादपि दीर्घात् समानात् सवर्णस्य लोपार्थम्, तेन वृक्षाः।। २४ ।
[दु० टी०]
समानः। समान इत्यभेदविवक्षायां प्रथमा । सवर्ण इत्युपश्लेषलक्षणा सप्तमी । दीर्घीभवतीत्यभूततद्भावे कृभ्वस्तिषु विकाराच्विरस्य च सर्वापहारी लोपोऽवर्णस्य च्वावीत्वम् (पा० ५|४|५०; ७।४।२६,३२) लोपमित्यापद्यते इति गम्यमानक्रियायाः कर्म । समानसंज्ञको वर्णः सवर्णे परे दीर्घीभवति । अवस्थाभेदेन वर्ण एव निवर्तते तत्प्रत्ययात् । यथा दुग्धं दधीभवति, लौहं सुवर्णीभवति । अवस्थानिवृत्तिश्च । " स्थानेऽन्तरतमः " ( पा० १ । १ । ५० ) इति स्थानशब्दोऽपि निवृत्त्यर्थ एव भविष्यति । अवर्णः कण्ठ्य इत्यकारस्याकारो दीर्घः । इवर्णस्तालव्य : इति इकारस्य ईकारः । उवर्णः ओष्ठ्यः इत्युकारस्य ऊकारः । ऋवर्णो मूर्धन्य इति ऋकारस्य ऋकारः । लृवर्णो दन्त्यः इति लृकारस्य लृकारः । तथा च आपिशलीयश्लोक :
आगमोऽनुपघातेन विकारश्चोपमर्दनात् ।
आदेशश्च प्रसङ्गेन लोपः सर्वापकर्षणात् ॥
तथा चायं वक्ष्यति – “प्रत्ययविकारागमस्थः सिः षत्वम्” (३ | ८ | २६) इति । च्विप्रत्ययश्चेत् कथं सागता, नदीहते इत्याह- समानग्रहणम् इत्यादि । च्चेस्तु