________________
१२६
कातन्त्रव्याकरणम्
ननु ‘दण्डाग्रम्' इत्यकारे लोपमित्यस्य विशेषविधेर्विषयत्वात् कथं दीर्घः ? तथा च तत्र वक्ष्यति अकारे सामान्ये इति चेत्, न | एवं तदर्थापरिज्ञानाद् यत्र विभक्तौ परतो वर्तमानस्य यल्लिङ्गस्याकारो लोपमापद्यमानोऽकारे सामान्य इति श्रुतत्वात् तद् - विभक्तेस्तल्लिङ्गस्याकार इति । यद् वा दण्डस्याग्रं दण्डानम् इति समासे षष्ठीलोपे कृते "प्रकृतिश्च स्वरान्तस्य" (२।५।३) इत्यनेन प्रकृतिवद्भावादकारलोपो न भवति । यथा सखा प्रियोऽस्येति 'सखिप्रियः' । अत्र "सख्युश्च" (२।२।२३) इत्यत्र भवति । यत्तु अकारलोपम् इत्यत्र पञ्जिकायाम् उक्तम् – इह स्यादिप्रस्तावाद् विभक्तेरेव निमित्तत्वात् ‘दण्डाग्रम्' इत्यादौ लोपो न भवतीति । तत्तु 'हे दण्ड अग्रं पश्य' इत्यन्वये युक्तार्थत्वाभावात् प्रकृतिश्चेत्यस्याविषयत्वं बोध्यम् । ननु सागतेत्यत्र दीर्घात् परलोपे सति लोपस्यादेशत्वाद् "आङयादिष्टे" (कात० परि०, सं० १८) इत्यनेन साशब्दस्याकारलोपः कथं न स्यात् । तथा च श्रीपतिनाप्युक्तम् – “आदिष्टग्रहणं लुप्तेऽपि यथा स्यात् । यथा आ + ओणति = ओणति, परा + ओणति = परोणति इति ? सत्यम्, 'परश्च लोपम्' इति कृते यदि आङ्यादिष्ट इति लोपः स्यात् तदा निमित्तस्य दीर्घस्याप्यभावात् पुनरप्याकारः समायाति इत्यनवस्था स्यात् । तन्न । आङ्यादिष्टे इत्यस्य प्रवृत्तौ सत्यां नैमित्तिकाभावं प्रत्येव अनवस्थाया उचितत्वात् । ___ यद् वा यदि सनिमित्तप्रस्तावाद् यस्मिन्नेव निमित्ते परे आङ्यादिष्टो भवति तदा तस्मिन्नेव निमित्तेऽवर्णो लुप्यत इति न दोषः । अन्ये तु सन्निपातलक्षणन्यायात् पूर्वलोपो न भवति । न च वर्णग्रहणे निमित्तत्वादिति वाच्यम्, तस्यानित्यत्वादित्याहुः । तर्हि 'तामुपैहि महाराज' (दु० स० १३।४) इत्यत्राकारलोपः स्यात् ? सत्यम् । "नामधातोर्वा" (कात० परि०, सं० १४) इत्यतो वाग्रहणानुवर्तनाद् विकल्पो भविष्यति । यद् वा आङ्यादिष्ट इत्यत्रोपसर्गो वर्तते । अत्रोपसर्गप्रतिरूपकेण सिध्यतीति ||२४|
[समीक्षा]
पाणिनि ने 'दण्डाग्रम्, मधूदकम्' आदि में दीर्घविधान "एकः पूर्वपरयोः" (पा० ६।१।७५) के अधिकार में किया है, जिसके कारण पूर्ववर्ती तथा परवर्ती दोनों अवर्णों के स्थान में एक दीर्घ आकारादेश, दो इवर्गों के स्थान में एक दीर्घ ईकारादेश, दो उवर्गों के स्थान में एक दीर्घ ऊकारादेश तथा दो ऋवर्गों के स्थान