________________
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
कर्तुमित्यर्थः । तर्हि लौकिका अपि सर्वे शब्दा लोकत एव विज्ञास्यन्ते किमनेनेत्याहलोकादिति । लोकादवधेस्तेषां लौकिकानां शब्दानाम् असंग्रहः सम्यग् ग्रहणं न भवतीत्यर्थः। यस्माल्लौकिकानां शब्दानां व्याकरणमेव सम्प्रदायस्तदभावे बहुप्रक्रिया विषयाः शब्दाः कथमवधारयितुं वृद्धपरम्परया शक्यन्ते इति । वैदिकानां पुनः : शब्दानां युगमन्वन्तरादिष्वपि अनवच्छिन्नक्रमेण सम्प्रदायत्वाल्लौकिकज्ञैरवधारयितुं पार्यन्ते इति स्थितम् ||२३|
॥ इति श्रीमत्त्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायां प्रथमे सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः समाप्तः ॥
[क० च०]
लोको० ।
वाशब्दैश्चापिशब्दैर्वा शब्दानां (सूत्राणाम् ) चालकैस्तथा । एभिर्येऽत्र न सिध्यन्ति ते साध्या लोकसम्मताः ॥
११५
-
इति वररुचिः । इह उभये लोका इति । शास्त्रकारा व्याकरणकर्तारः, इतरे यादृच्छिकादयो देशव्यवहारविज्ञत्वात् । ग्रहणमपि द्विविधम्- शास्त्रव्यवहारहेतुः, लोकव्यवहारहेतुश्च । तत्राद्यमाह - निपात इत्यादि । चादयोऽसत्त्वेऽर्थे निपाताः । स्वरादिनिपातमव्ययम् | उपसर्गाः प्राक् प्रादयो धातुयोगे ।
क्रियानिमित्तं कारकम्, निमेषादयः कालाः, एकादिकाः सङ्ख्याः, अदर्शनं लोपः । अपिशब्दादन्येष्वपि प्रकृतिप्रत्ययविकारागमादेशस्त्रीपुंनपुंसकविभक्ति - प्रथमाद्वितीयादयः । अथ ग्रहणसिद्धिरपि द्विविधा एका निपातादिशब्दानामर्थतो ज्ञानरूपा, अन्या च सकारादिलोपादिना मनीषादिशब्दसिद्धिरूपा इति बोध्यम् ।
एतेन लोकोपचारादभिधानाश्रयणस्य को भेदश्चेत्, अथ महानेव भेदः । सिद्धव्यवहारो लोकोपचारः । निपातादिशब्दा एतेष्वर्थेषु प्रसिद्धाः, अतः सूत्राद् वेदितव्या इत्यभिधानाश्रयणं तु शब्दसाधनप्रतीतिः । हेमकरेणोक्तं न प्रमाणम्, टीकापञ्जिकयोः “अवर्ण इवर्णे ए" (१।२।२) इत्यत्र मनीषाशब्दसाधने लोकोपचारात् सकारलोपं वक्ष्यति, तस्मादभिधानाश्रयणस्यापि लोकोपचारपर्यवसायित्वमिति वक्ष्यतीति युक्तम् । लोकव्यवहारहेतुमाह - तथेत्यादि ।
पञ्चालैर्वा निर्वृत्त इति पञ्चालैः परिपालित इत्यर्थः । " लुपि युक्तवद् व्यक्तिवचने " (पा० १।२।५१) इत्यस्यायमर्थः - प्रत्ययार्थेन सहात्मानं युनक्ति स्म इति युक्तशब्देन