________________
११४
कातन्त्रव्याकरणम्
यद्येवं वरणा-पञ्चालशब्दौ समानाधिकरणत्वात् कथं नगरजनपदयोर्लिङ्गसंख्ये न गृह्णीतः इति । तस्मात् तद्धितलोपं कृत्वा "लुपि युक्तवद्व्यक्तिवचने" (पा० १।२।५१) इति युक्तवद्भावो वक्तव्यो नेत्याह - पञ्चालाः, वरणा इति ।नगरजनपदयोर्लिङ्गसंख्याभ्यां योगः सम्बन्धो न दृश्यते, कुत इत्याह – संज्ञाशब्दत्वादिति । ईदृशावेवामू विशिष्टलिङ्गसंख्यकौ नगरजनपदयोः संज्ञात्वेन प्रसिद्धौ, अतः संज्ञैव प्रमाणमिति । तथा च भगवान् पाणिनियुक्तवद्भावलुकोः प्रतिषेधमाह - "तदशिष्यं संज्ञाप्रमाणत्वात्, लुब्योगाप्रख्यानात्" (पा० १।२।५३, ५४) इति ।
अन्ये तु योगो न दृश्यते इति पञ्चालाः क्षत्रियाः सन्त्यस्मिन् देशे इत्यादिरन्वयो न दृश्यते संज्ञाशब्दत्वादिति मन्यन्ते । यंदाह जयादित्यः- पञ्चाला वरणा इति । नैते योगशब्दाः, अपि तु संज्ञाशब्दत्वादिति । हरीतक्यः फलानीति, हरीतक्याः फलं विकारोऽवयवो वेति "प्लक्षादिभ्यश्च"(पा७४।३।६४) इत्यणि कृते "हरीतक्यादिभ्यश्च" (पा० ४।३।१६७) इति "फले लुक्" (पा० ४।३।१६३) न वक्तव्यम् । हरीतकीशब्दो हि वृक्षे पुंसि फले नपुंसके लोकत एव प्रवर्तते । स च स्वभावात् स्त्रीलिङ्ग एवेत्याहफलेष्वपि इति । हरीतक्यः इति बहुवचनेन गणः कथ्यते । हरीतकी, कोषातकी, भल्लातकी, शल्लकी, द्राक्षेत्यादि । एवमन्येऽपीति । "एकादाकिनिच्चासहाये, मृदस्तिकन्, सस्नौ च प्रशंसायाम्" (पा० ५।३।५२, ४।३९, ४०) इत्यादोऽपि न वक्तव्याःएकः, एककः, एकाकी । मृत्तिका, मृत्सा, मृत्स्ना चेत्यादयो हि तद्धिता वृक्षादिवल्लोकत एव विशिष्टविषयतया प्रसिद्धाः। एतदेवाह – संज्ञाशब्दा इवेति ।
खलतिकं वनानीति, खलतिकस्य देशस्यादूरभवानि वनानीति विगृह्य “अदूरभवश्च" (पा० ४।२।७०) इत्यण् तल्लोपश्चेति न वक्तव्यः । तथा युक्तवद्भावोऽपीत्याह - तेषाम् इत्यादि । नामेति = संज्ञेत्यर्थः ।
ननु लोकोपचाराल्लौकिका नामशब्दा ज्ञायन्ते, वैदिकास्तु कथं ज्ञातव्याः ? किं तैतिरिति न वक्तव्यम् ? व्याकरणं हि वेदाङ्गमिष्यते अन्यथा तन्न स्यात् । न चान्यद् वैदिकशब्दव्युत्पादने सूत्रमस्ति, येन वेदाङ्गत्वं भविष्यतीत्याह-वैदिका इत्यादि । वैदिकाः शब्दा लौकिकज्ञैः पुरुषैर्ये यथोक्ताः येन प्रकारेण वेदे प्रतिपादितास्तथैव प्रकारेण ते निर्णीतार्थाः प्रकृतिप्रत्ययादिविभागोहनद्वारेण निश्चितार्था मन्तव्याः । एतदुक्तं भवति - वेदे हि लौकिका एव शब्दा बहवः प्रयुज्यन्ते, तेन तेषां व्युत्पत्त्यनुसारेण इतरेषामपि वैदिकानां लौकिकज्ञत्वात् प्रकृतिप्रत्ययादिविभागोहनसामर्थ्यः शक्यते व्युत्पत्तिः