________________
सन्धिप्रकरणे प्रथमः सझापादः
११३ नाप्यवयवोऽनारम्भकत्वात् । वृक्षे हि जाते खलु फलमुत्पद्यते तथा फलितावस्थामुपमर्दम् (उत्पाद्य)शाखाद्यवयवसहायमन्यमेव विशिष्टं वृक्षावयविनमारभमाणं फलं विकारोऽवयवो भवति । यथा पल्लवमिति चेत्, लोकव्यवहारातिरिक्तेयं युक्तिरिति । जम्बूफलमिति प्रकृत्यन्तरमेव, न तु फलेन "स्वरो हस्वो नपुंसके" (२।४।५२) इति जम्बूः फलम् इत्यभेदोपचारात् स्त्रीलिङ्गमेव । तथा चाह – 'लिङ्गमशिष्यं लोकाश्रयत्वात्'। ____एवमन्येऽपीत्यादि । न खलतिकस्यादूरभवानि वनानि खलतिकमिति । एवं यथैकः तथैकः एकाकी । यथा मृत् तथा मृत्तिका । प्रशस्ता मृत् मृत्स्ना मृत्सा च । तदिह दिङ्मात्रमेव तद्धितनिदर्शनमिति । वैदिका इत्यादि । लौकिका वेदेष्वपि प्रयुज्यन्ते । तत्र त एव बहवस्तदनुसारेण प्रकृत्यादिविभागोहनसमौकिकज्ञैर्वैदिकाः शब्दा ये यथोक्तास्ते तथैव प्रतिपत्तव्या भवन्ति । लोकादित्यादि। तर्हि लौकिका अपि शब्दा लोकोपचारादेव सिद्धा इति चेत्, नैवम् । गदितं यदिह लक्षणं बहुप्रक्रियाजालं तवृद्धपरम्परया अवधारयितुं न शक्यमिति करणीयमेवेति ।।२३। ॥ इति दुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायां प्रथमे सन्धिप्रकरणे प्रथमः सज्ञापादः समाप्तः ॥
[वि० प०]
लोको०। इहोभये लोकाः- शास्त्रकारा इतरेऽपि । तेषाम् उपचारो लोकोपचारः। गृह्यतेऽनेनार्थ इति ग्रहणं शब्दस्तस्य सिद्धिरिति विग्रहः । अथ के ते शब्दा येषां सिद्धिरित्याह - निपात इत्यादि । एते च निपातादयो यथास्थानं प्रतिपादयिष्यन्ते, न केवलं निपातादयोऽपि वेदितव्या इत्याह - तथा इत्यादि । वरणाः सन्त्यस्मिन्नगरे, वरणानामदूरभवं वा नगरम् इत्यादावर्थे तद्धितमुत्पाद्य "वरणादिभ्यश्च" (पा० ४।२।८२) इत्यस्य लोपं पूर्वाचार्याः कुर्वन्ति । ततो हि वरणाशब्दो नगरेऽपि वर्तते । तदयुक्तम्, लोकोपचारादेव वरणाशब्दो नगरस्यापि संज्ञा, न केवलं वृक्षस्येति किमत्र तद्धितलोपेनेति । तथा पञ्चालाः क्षत्रियाः सन्त्यस्मिन् देशे, पञ्चालैर्वा निवृत्तः, पञ्चालानां वा निवासः, पञ्चालानामदूरभवो वा देश इति चतुर्वर्थेषु अण, तस्य .. "जनपदे लुप्" (पा० ४।२।८) इत्यपि न वक्तव्यम् इति । न केवलं पञ्चालशब्दः क्षत्रियाणां सञ्ज्ञा जनपदस्यापि, लोकोपचारात् । तथाहि पृथग्जना अपि पञ्चालशब्दात् जनपदमपि प्रतिपद्यन्ते, न च तेषां प्रकृतिप्रत्ययविभागोहनज्ञानमस्ति । तस्मात् "तदस्मिन्नस्तीति देशे तन्नाम्नि, तेन निवृत्तम्, तस्य निवासः, अदूरभवश्व" (पा० ४।२।६७-७०) इति न वक्तव्यमेव ।