________________
११२
कातन्त्रव्याकरणम्
पञ्चाला इति जनपदस्यापि । पञ्चाला वरणा इति योगो न दृश्यते, सञ्ज्ञाशब्दत्वात् । हरीतक्यः फलानीति फलेष्वपि स्त्रियां वृत्तिः । एवमन्येऽपि । सञ्ज्ञाशब्दा इव तद्धिता लोकतः सिद्धाः । खलतिकं वनानीति, तेषां वनानामेकवचनान्तमेव नाम | शब्दानामेकार्थेऽपि लिङ्गवचनभेदः । यथा आपो जलम्, दाराः कलत्रं भार्येति ।
वैदिका लौकिकज्ञैश्च ये यथोक्तास्तथैव ते ।
निर्णीतार्थास्तु विज्ञेया लोकात् तेषामसंग्रहः ॥ २३ ॥
॥ इति दौर्गसिंह्मां वृत्तौ प्रथमे सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः समाप्तः॥
[दु० टी० ]
लोको० । इहोभये लोकाः - शास्त्रकारा इतरेऽपि । तेषामुपचाराद् “अवधेः” इत्यपादाने पञ्चमी । गृह्यते येनेति तद् ग्रहणम् अभिधानम् । यथास्थानमेव निपातादिसंज्ञा वर्णयिष्यन्ते । वरणा इति न केवलं वृक्षस्य संज्ञा, नगरस्यापि । वरणाः सन्त्यस्मिन्नगरे इति वरणा उच्यन्ते, किं "वरणादिभ्यश्च " ( पा० ४ । २ । ८२ ) इति तद्धितलुपा । न केवलं क्षत्रियाणां 'पञ्चाल ' इति संज्ञा, जनपदस्यापि । पञ्चालानां क्षत्रियाणां निवासोऽदूरभवो वा देशः, पञ्चाला वा सन्त्यस्मिन् देशे, पञ्चालैर्वा निर्वृत्तो जनपदः इति किं चातुरर्थिकेनाणा, यस्य जनपदे विहितस्य लुप् क्रियते । वरणाः नगरम्, पञ्चाला जनपद इति नगरजनपदयोर्लिङ्गसंख्याभ्यां योगो न दृश्यते, संज्ञाशब्दत्वात् । हरीतक्यः फलानीति बहुवचनेन गणः संसूच्यते । हरीतकी -भल्लातकीकोषातकी-शल्लकी- द्राक्षा- कण्टकारिका-शेफालिका- इत्यादि । किं प्रकृतिविकारावयवत्वेन विवक्षिते फले विहितस्याणो लुका ।
एवं व्रीहयस्तिलाः, मुद्गाः, माषाः, शालयः, यवाः, गोधूमाः । मुद्गैः शालीन् भुङ्क्ते इति । पुष्पमूलेष्वपि मल्लिका, नवमालिका । बृहती, आमलकम्, कुवलम्, बदरमिति प्रकृत्यन्तरमेव फले वर्तते । आमलक्याः, कुवल्याः, बदर्याः फलमित्येवमादावर्थेऽणपि न भवति, तदन्तात् फलस्याप्रतीतेः । अन्यथा हि फलादपि वृक्षे स्यात् फलप्रतीतौ भवत्येके । अश्वत्थस्य फलम् आश्वत्थम्, वैणवम्, प्लाक्षम्, जाम्बवम् । किञ्च वृक्षस्य विकारोऽवयवो वा फलं कथं भवितुमर्हति । विकारो द्विविधः– प्रकृतेरुपमर्दकः, व्यपेदशान्तरकृच्च । यथा खादिरं भस्म, खादिरो यूप इति,
१. यतोऽपैति भयमादत्ते वा तदपादानम् (२।४।८) ।