________________
सन्धिप्रकरणे प्रथमः सजापादः
१०३ तत्रैवेति । एतेन विभक्त्यर्थसंवलितार्थप्रतिपादकः समुदायः पदभिति स्थितम् । (तत्राह उपलब्धिग्रहणं विशिष्टार्थप्रतिपादनार्थं विशिष्टश्च विभक्त्यन्तप्रतिपाद्यत्वमेवात्रविवक्षितम् । तेन पूर्वपरयोरर्थस्य विभक्त्यन्तप्रतिपादितस्योपलब्धौ पदसंज्ञा विधीयमाना श्रुतत्वाद् विभक्त्यन्तस्यैव उपजायते इति न काचिदनुपपत्तिः । प्रयोगे त्वर्थो विवक्षित इति वदतः कुलचन्द्रस्यापीदमेव हृदयम् । कारकसंसृष्टोऽर्थ इति पञ्जिकायां तत्रैव तात्पर्यमनुमीयते)।
ननु 'विभक्त्यन्तं पदम्' इत्युक्ते का विभक्तिः कुतो जायते, तदेव वा किमिति व्याख्यातुं शक्यते इत्याह - किञ्च इति । शङ्क्येतेति शङ्कामात्रं न परमार्थतः "वर्गप्रथमः" (१।४।१) इत्यादिविधानात् । अन्यथा यदि लुप्तविभक्तिकानां पदत्वं नास्ति, तदा 'वागत्र' इत्यादौ विभक्तिलोपे सति पदान्तत्वाभावात् कथं तृतीयप्रसङ्ग इति चेत्, 'आसीत्, भूयात्' इत्यादौ सूत्रं चरितार्थं भविष्यति तर्हि तकारमेव निर्दिशेत् । नहि तमन्तरेणान्योऽस्ति, नैवम् । पदान्ता इत्यन्तशब्दस्य समीपार्थत्वे सति 'वागत्र' इत्यत्रापि सूत्रप्रवृत्तिर्भविष्यति चेत्, तर्हि "अव्ययाच्च" (२।४।४) इति ज्ञापकं ज्ञेयम् । तत्र च पदसंज्ञार्थमिदमिति वक्ष्यति ।
अथ एकवाक्यतापक्ष एव तत्सूत्रं ज्ञापकमिति तत्रैव सूत्रे पञ्जीकृतोक्तम् । भिन्नवाक्यतापक्षे कथमयं सिद्धान्तो ज्ञापकत्वाभावात् । भिन्नवाक्यतापक्ष एव दुर्गसिंहस्याभिमतः । यदाह टीकायाम् अव्ययेभ्यः सामान्यविहिताः स्यादयो विद्यन्त एव । तत्रैव पञ्जीकृताऽप्युक्तम् । अत एकस्मिन्नपि पक्षे ज्ञापके दत्ते शङ्कानिरासो भवत्येव । किञ्च एकवाक्यतापक्ष एव दुर्गसिंहस्याभिमतः। कथमन्यथा पदसंज्ञार्थमिदमित्युक्तम्, भिन्नवाक्यतायां गौरवाच्चेत्येके ।
राजेति नित्यत्वादिति । अथ यावता नकारोऽस्ति तावतैव व्यञ्जनात् सिलोपो भवति, यदा तु लिङ्गान्तनकारस्यैवाग्रत एव लोपस्तदा व्यञ्जनान्तत्वाभावात् कथं सिलोपः स्यात्, येन नित्यत्वम् ? सत्यम् – “न संयोगान्तावलुप्तवद्" (२।३।५८) इत्यादिना नकारस्यालुप्तवद्भावान्न दुष्यति । तर्हि नलोपस्यापि कृताकृतप्रसङ्गित्वान्नित्यत्वम् । (का० परि० पा० ८२) नैवम् । 'शब्दान्तरस्य विधिः प्राप्नुवन्ननित्यो भवितुमर्हति' (सं० बौ० वै०, पृ० २२२) इत्यत्र शब्दग्रहणस्योपलक्षणत्वान्निमित्तान्तरविधेरनित्यत्वम् ।