________________
१०४
कातन्त्रव्याकरणम् तथाहि सौ स्थिते व्यञ्जनाश्रिते लोपः, लुप्ते तु विराम्माश्रितः इति नैवम् । सेर्लोपेऽपि प्रत्ययलोपलक्षणमिति न्यायाद् व्यञ्जनाश्रित एव लोप इति, तदयुक्तम् । "न वर्णाश्रये प्रत्ययलोपलक्षणम्” (सं० बौ० वै०, पृ० २२१) इति न्यायात् । ननु तथाप्यन्तरङ्गत्वात् प्रथमतो नलोपेनैव परिभाषेति प्राञ्चः।
नव्यास्तु सेर्लोपस्य नित्यत्वादावश्यकत्वादित्यर्थः । नतु परिभाषानित्यत्वम्, तर्हि नलोपस्यावश्यकत्वमिति चेत्, न । प्रथमं नकारलोपेऽपि कृतेऽलुप्तवद्भावाद् व्यञ्जनाच्चेति सिलोपे सति निमित्तस्य सेरभावे पुनर्नकारः समायातः । यदि विराममाश्रित्य पुनर्लोपो नकारस्येत्युच्यते भवतु तथापि नकारलोपात् प्रागेव सेर्लोपः संवृत्तः, अत एवावश्यकत्वम् ।
केचित्तु पदसंज्ञामपेक्ष्य सिलोपस्य नित्यत्वं व्याख्येयमित्याहुः । विभक्त्यन्ततानुपपत्तेरिति । ननु कथमेतदुच्यते प्रत्ययलोपलक्षणन्यायेन विभक्त्यन्तत्वात्, नैवम् । न सम्बुद्धौ (२।३।५७) इति ज्ञापकात् लुप्तविभक्तिकानां विभक्त्यन्तता नास्ति । तथाहि 'हे राजन् !' इत्यत्र पदान्तत्वेन लिङ्गान्तत्वाभावात् नलोपो न भविष्यति किं पुनर्न सम्बुद्धाविति निषेधेन तस्माद् बोधयति लुप्तविभक्तिकानां विभक्त्यन्तता नास्ति । ननु केनोच्यते पुनर्लिङ्गसंज्ञावश्यं कार्येति । पूर्वकृतलिङ्गसंज्ञयैव नकारलोपः स्यात् । नैवं विभक्त्यन्तभिन्नस्यैव लिङ्गसंज्ञेति निश्चितम् । अतो विभक्त्यन्ततैव विरोधिनी, तस्माद् विरोधिन्या सहैकत्रानवस्थानान्नकारलोपार्थं पुनर्लिङ्गसंज्ञा अवश्यमेव कार्येति ।
वस्तुतस्तु 'यथोद्देशं संज्ञापरिभाषे कार्यकालं वा” (सं० बौ० वै०, पृ० २२१) इति न्यायात् पुनर्लिङ्गसंज्ञाविधानं नलोपार्थमिति । हेमकरस्तु लिङ्गसंज्ञां प्रति विभक्त्यन्तत्वाभावस्य न संबुद्धाविति ज्ञापकम् उन्नेष्यते, पदसंज्ञां प्रति विभक्त्यन्तत्वमस्त्येव । कुलचन्द्रस्तु भूतपूर्वस्तदुपचार इति प्रलपति, तन्न । विभक्तिरेवान्तोऽवयवो यस्य समुदायस्यासीत् स इह पदसंज्ञकः। स पुनः प्रकृतिप्रत्ययस्वरूप एव । वारीत्यादौ तु केवलायाः प्रकृतेः समुदायत्वाभावादुपचारेणापि किं कृतम् ।
यच्च तेनैवोक्तम् – प्रतीतावयवानां वृक्षाणां मध्ये क्षत्वावयवोऽपि वृक्ष एवोच्यते, तद्वदत्रापीति । तदप्यसङ्गतम्, प्रकृतेरवयवावयविभागस्यासम्भवाद् वृक्षदृष्टान्तानुपपत्तेः कथमपि दृष्टान्त (सम्भवेऽपि)- मन्तरेणापि एकदेशविकृतस्यानन्यवद्भावादित्यत्रैव पर्यवसानं तत्रैव छिन्नकर्णस्य शुनः श्वापदेशनिदर्शनं परिभाषावृत्तायुक्तत्वात् । न चात्रा