________________
कातन्त्रव्याकरणम्
वस्तुतस्तु अर्थोपलब्धिरिति, अनेन विशिष्टार्थोपलब्धिरित्युच्यते । विशिष्टस्तु उभयथा मिलितार्थत्वेन । अतः श्रुतत्वान्मिलितस्यैवेयं संज्ञेति । यद् वा 'अवयवसिद्धेः समुदायसिद्धिर्बलीयसी' (व्या० परि० पा० १०८) इति न्यायात् समुदायस्यैव, न प्रत्येकम् | परमार्थतस्तु पूर्वपरयोरिति समुदायसमुदायिसम्बन्धे षष्ठीत्याह - समुदाय इति वृत्तिः । अथ कथं पूर्वपरशब्दसमुदायस्य न संज्ञा, नैवम् । व्याप्तिन्यायाद् युष्मदस्मदोः पदमिति दर्शनाच्च । पदं च द्विविधम्- स्याद्यन्तम्, त्याद्यन्तं च । अत एवोदाहरणद्वयं वृत्तौ दर्शितम् । यद्यप्यत्र सञ्ज्ञामात्रं दर्शयितुमुचितं तथापि तत्प्रयोजनमुक्त्वा सौष्ठवं सूचितम् । अथ अर्थानुपलब्धौ पूर्वपरयोः प्रयोग एव नास्तीत्याह अथवा इति ।
१०२
-
अन्यथा इत्यादि । विशिष्टार्थप्रतिपादनं विना यदि पदसंज्ञा स्यात् तदा दूषणमेतत् । किं दूषणमित्याह - तदित्यादि । अर्थो हि द्विविधः - प्रतिपत्तिहेतुः प्रयोगहेतुश्चेति । तत् कस्येह ग्रहणम् ? अविशेषाद् द्वयोरपि ग्रहणमिति केचित् । चेत् तर्हि ‘युवतयः' इत्यादयो न सिध्येयुरिति । एतदेवाह - तत इत्यादि । आदिग्रहणाद् 'भृगवः, अत्रयः, जिष्णवः' इत्यादीनामपि ग्रहणम् । उपलब्धिग्रहणेत्यादि । अथ युवतिशब्दस्यापि घटाद्यर्थस्यावाचकत्वाद् विशिष्टार्थत्वमस्तीत्याह - विशिष्टश्चेति । सत्युपलब्धिग्रहणे प्रयोगहेतुरर्थो गृह्यते, अस्यैवोपलब्धियोग्यत्वात् प्रयोगहेतुश्च स एव, यः कारकसम्बन्धो व्यक्तिमन्तरेण प्रयोगाभावात् ।
ननु तथापि ‘युवतयो युवानमभिलषन्ति' इत्यत्रापि युवतिशब्दस्य भिन्नपदसम्बन्धिकर्मकारकसम्बद्धत्वात् कथं पदसंज्ञा न स्यात् । न च स्वविभक्त्युपस्थाप्यं यत् कारकं तेन संसृष्टोऽर्थो यत्र प्रतीयते तत्र संज्ञेयमिति वाच्यम्, षष्ठ्यन्तस्य स्वविभक्त्युपस्थाप्यकारकसंसृष्टत्वाभावात् । अन्यच्च 'तेऽत्र' इति उदाहरणम् इति न सिध्यति, प्रथमाया लिङ्गार्थमात्रे विधानात् । अथेतरापेक्षया अर्थं प्रतिपादयन् यः प्रयोगार्हो भवति स इह कारकसंसृष्टत्वेन विवक्षितः । विभक्तिमनपेक्ष्य तु प्रकृतिर्न प्रयोगार्हा भवतीति चेत्, किमितरपदानपेक्षया प्रयोगार्हत्वमुक्तम्, उत अर्थान्तरापेक्षयाऽर्थप्रतिपादकत्वम् ? आद्ये 'ते मे' प्रकृतीनां पदत्वं न स्यात्, पदान्तरापेक्षयैव तेषां प्रयोगात् । द्वितीये तु द्वितीयान्तानामपि क्रियापदापेक्षित्वाद् दोषः ।
अन्ये तु 'सप्तर्षयः' इत्यादौ प्रकृत्यर्थातिरिक्तानुपलम्भात् (अर्थान्तरानपेक्षया अर्थप्रतिपादकत्वात्) सप्तर्षिभागस्यापि पदत्वप्रसङ्ग इत्याह- कारकसंसर्गश्च