________________
सन्धिप्रकरणे प्रथमः सज्ञापादः
१०१ यद्येवं विभक्त्यन्तं पदमिति कथं न कृतम् ? सत्यमेतत्, किन्तु पूर्वा प्रकृतिः, परा विभक्तिः, तयोः पूर्वपरयोः प्रकृतिविभक्त्योः प्रत्येकमयमर्थः समुदायेन चायम् । एवं च सति प्रकृतिप्रत्ययौ सम्बद्धौ भवतः इति व्युत्पादनार्थं गुरुकरणम् । तच्च टीकायां विस्तरेणोक्तम्, इह तु नोक्तं ग्रन्थगौरवभयात् । किं च विभक्तिरन्त्योऽवयवो यस्य तद् विभक्त्यन्तम् इत्युक्ते साक्षाद् विभक्त्यन्तानामेव पदसंज्ञा स्यात्, न तु लुप्तविभक्तिकानामिति शङ्क्येत । यथा राजेति नित्यत्वाद् "व्यञ्जनाच्च" (२।१।४९) इति सेर्लोपे कृते विभक्त्यन्तत्वानुपपत्तौ पुनर्लिङ्गसंज्ञायां सत्यां विराममाश्रित्य "लिङ्गान्तनकारस्य" (२।३।५६) इति नलोपो भवति । तथा अत्रापि विभक्तिलोपे विभक्त्यन्तत्वाभावात् पदसंज्ञा न स्यात् । सिद्धान्ते तु लुप्तायामपि विभक्तौ अर्थोपलब्धेः सम्भवात् पदसंज्ञा न विहन्यते इति ।।२०।
[क० च०]
पूर्व० । नन्वत्र कः समासः, किं पूर्वश्च परश्च, पूर्वा च परा चेति वा । नाद्यः, प्रकृतिविभक्त्योः पुंस्त्वाभावात् । नापि द्वितीयः- अस्मन्मते "नान्यत् सार्वनामिकम्" (२।१।३३) इत्यनेनैव "सर्वनाम्नो वृत्तिमात्रे पुंवभावः" तद्धितार्थोत्तरपदसमाहारे च" (सि० कौ०२।१।५१ - तत्पुरुषसमास०, पृ० २२०) इति सूत्रस्याभावात् । अतः पूर्वं च परं चेति सामान्येन समासः । तथा च "नान्यत् सार्वनामिकम्" (२।१।३३) इत्यत्र पञ्जिकायां दक्षिणोत्तरपूर्वाणामित्यत्र सामान्येन नपुंसके समस्य पश्चात् स्त्रीत्वविवक्षेति, अर्थे पदवर्णानां विभक्त्यन्तं पदमाहुरापिशलीयाः । “सुतिङन्तं पदम्" (१।४।१४) पाणिनीयाः। इह “अर्थोपलब्धौ पदम्" इति वररुचिः।
ननु प्रकृतेः प्रत्ययस्य च न कथं प्रत्येकं संज्ञा | संज्ञयैव किं प्रयोजनमिति चेत्, 'अग्नयः' इत्यत्र "इरेदुरोज्जसि" (२।१।५५) इत्यनेन एकारे कृते "एदोत्परः" (१।२।१७) इत्यनेन जसोऽकारलोपः स्यात्, नैवम् । “सिङसोरलोपश्च" (२।१।५८) इति अलोपग्रहणात्, अन्यथा “एदोत्परः" (१।२।१७) इत्यनेनालोपः सिद्धः, तदयुक्तम् । स्यादीनां मध्ये ङसिङसोरलोप एव भविष्यति, नान्येषामिति नियमार्थः कथं न स्यात्, यदि नियमव्यावृत्त्या 'अग्नयः' इत्यत्र संज्ञाफलं नास्ति तदा नयतीत्यादौ वक्तव्यम्, नैवमत्र प्रत्येकं संज्ञाकल्पने तस्य नियमत्वं स्यात्, समुदायसंज्ञाकल्पने तस्य विधित्वं स्यात् । तस्माद् ‘विधिनियमसम्भवे विधिरेव ज्यायान्' (का० बला० ८४) इति तदेतत् सूत्रे समुदायस्यैव संज्ञा कल्प्यते । किं च यदि प्रत्येकमेव संज्ञा भविष्यति, तदा पदे इति द्विवचनान्तमेव विदध्यात् ।