________________
कातन्त्रव्याकरणम्
एवमाह न तं प्रतिपादयन्ति । तत्र हि पदानां व्युत्पत्तिः । न हि पदानीतरेतरविलक्षणार्थप्रतिपत्तौ सम्बन्धानपेक्ष्याणि भवितुमर्हन्ति । न खलु प्रथमोपलब्धानि तानि तादृशमर्थं गमयन्ति । यदाह - "प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः" (का० वृ० १।२।५६) इति । तत्र प्रकृतीनां स्वार्थविशिष्टं द्रव्यमर्थः, स्वार्थपरिच्छेदेन हि द्रव्येषु प्रकृतीनां नियमः स्वार्थो हि नियामकः प्रकृतीनां नाभिधेयः ।
यदि पुनः क्रमेणोभयमप्यभिदधीरन्नाभिधातुमर्हन्ति । स्वार्थप्रतिपत्तिकाल एव स्वश्रुतेरुपरमः कुत इदानीं द्रव्यप्रतिपत्तिः प्रत्ययानां पुनः प्रकृत्यर्थविशिष्टः स्वगतसंख्याविशिष्टश्च कारकविशेषः प्रकृत्यर्थो वार्थः। एतेन समुदायार्थो व्याख्यातः । उपसर्गाणां न पृथगाभिधानं प्रयोगो वा (ते) प्रकृतिप्रत्ययसङ्गताः पुनरर्थविशेषं द्योतयन्तोऽर्थप्रतिपत्तिहेतवोऽभिधीयन्ते । नहि तानन्तरेण तादृशमर्थं गमयन्ति । निपातानामपि येषां स्वार्थो न सम्भवति तेऽप्येवं प्रतिपत्तव्याः ।।२०।
[वि० प०]
पूर्व० । अर्थोपलब्धौ सत्यामिति "कालभावयोः सप्तमी" (२।४।३४) इत्यनेन भावे सप्तमी । तेऽत्रेति तच्छब्दात् प्रथमाबहुवचनं जस्, त्यदाद्यत्वम्, “अकारे लोपम्" (२।१।१७), जस् सर्व इ: (२।१।३०), अवर्ण इवणे ए" (१।२।२) इत्येत्त्वे प्रकृतिविभक्त्योः समुदायत्वात् 'ते' इति पदं सिद्धम् । ततः परस्य अत्रशब्दस्य "एदोत्परः" (१।२।१७) इत्यादिना अकारलोपः पदकार्यम्, एवमन्यत्रापीति | अथोपलब्धिग्रहणं किमर्थं पूर्वपरयोरर्थे पदमित्युच्यताम्, अर्थे सति पदं भविष्यति ? सत्यम् । उपलब्धिग्रहणं विशिष्टार्थप्रतिपादनार्थम् । अन्यथा अर्थमात्रे पदसंज्ञा स्यात् । ततश्च युवतिशब्दस्य केवलस्यापि पदत्वप्रसङ्गः । ____ तथाहि "यूनस्तिः" (२।७।३) इति युवन्शब्दात् लोकोपचारात् स्त्रियां तिप्रत्ययोऽस्ति पूर्वपरयोः समुदायोऽर्थमात्रं च विभक्तिमन्तरेणाप्यनुगतमस्त्येव । सत्यां च पदसंज्ञायां जसि परतः “इरेदुरोपसि" (२।१।५५) एकारे भूते "एदोत्परः" (१।२।१७) इत्यादिना जसोऽकारलोपः स्यात् । ततो · 'युवतयः' इत्यादयो न सिध्येयुरिति । उपलब्धिग्रहणे तु विशिष्टार्थः प्रतिपादितो भवति । विशिष्टश्च स एव, यः कारकसंसृष्टः । कारकसंसर्गश्च तत्रैव, यत्र विभक्तिरित्याहउपलब्धिग्रहणम् इत्यादि ।