________________
कातन्त्रव्याकरणम्
तयोरैक्यमपि कल्पयितुं शक्यते । युधिष्ठिरमीमांसक गुरुपदहालदाराभ्यामत्र विविधानि मतानि प्रस्तुतानि । प्रतिज्ञावचनानुसारं टीकाकारो बौद्धः परिलक्ष्यते -
भग्नं मारबलं येन निर्जितं भवपञ्जरम् । निर्वाणपदमारूढं तं बुद्धं प्रणमाम्यहम् ॥ शिवमेकमजं बुद्धमर्हदग्र्यं स्वयम्भुवम् । कातन्त्रवृत्तिटीकेयं नत्वा दुर्गेण रच्यते ॥
टीकायामस्यां वृत्तेर्गूढाः प्रौढाश्चांशा विस्तरेण स्पष्टं व्याख्याताः । इमामन्तरा दुर्गवृत्तिर्नैवावबोद्धुं शक्यते । स्वकीयमतसमर्थने परकीयमतदूषणे च बहवः पूर्वाचार्या ग्रन्थाश्च स्मृताः प्रमाणरूपेण | टीकेयं विद्यानन्देन ( विजयानन्देन ) विद्यासागरेण च कातन्त्रोत्तर – आख्यातमञ्जरीति ग्रन्थाभ्यां व्याख्याता । कृत्सूत्राणि च शिवरामशर्मा मञ्जरीव्याख्यया रघुनन्दनभट्टाचार्यश्च कलापतत्त्वार्णवनाम्न्या कृतशिरोमणिनाम्या वा व्याख्यया व्याख्यातवान् ।
३. दुर्गवृत्तिविवरणपञ्जिका [सं० ११००१]
व्याकरणवाङ्मये न्यासो विवरणपञ्जिका वा सैव भवति, यत्र सूत्राभिप्रायः सूत्रकाराभिप्रायो वा प्राधान्येन प्रकाश्यते । आचार्यत्रिलोचनदासेन दुर्गवृत्तिविवरणपञ्जिका प्रणीता । प्रतिज्ञावचनानुसारं कातन्त्रव्याकरणानभिज्ञानामवबोधाय ग्रन्थोऽयमाचार्येण विरचितः । पाणिनीये यत् स्थानमधिकरोति जिनेन्द्रबुद्धिप्रणीतो न्यासस्तदेव स्थानमिहावगन्तव्यं पञ्जिकायाः । ग्रन्थादौ स एवं प्रतिज्ञामाचरति -
प्रणम्य सर्वकर्तारं सर्वदं सर्ववेदिनम् । सर्वीयं सर्वगं सर्वं सर्वदेवनमस्कृतम् ॥ दुर्गसिंहोक्तकातन्त्रदुर्गवृत्तिपदान्यहम् । विवृणोमि यथाप्रज्ञमज्ञसंज्ञानहेतुना ॥
पञ्जिकाया अस्याष्टीकाग्रन्था एते उपलभ्यन्ते -
१. कविराजसुषेणविद्याभूषणस्य कलापचन्द्रः ।
२. आचार्यबिल्वेश्वरस्य टीका ।
३. कर्णोपाध्यायस्य उद्द्योतव्याख्या ।
१०
-