________________
भूमिका प्रभृतयश्चाभिधानानुसारिणीमेवोपयोगितामावहन्ति । एवमनुशीलनेनेदमेवाभाति यत् साम्प्रतम् उपलब्धेषु पूर्णवृत्तिग्रन्थेषु दुर्गसिंहविरचिता वृत्तिः प्राचीनतमा प्रौढा च वर्तते । कातन्त्रसम्प्रदायेऽस्यास्तदेव स्थानं वर्तते यत् पाणिनीये महाभाष्यस्य ।
कातन्त्रीयेषु चतुर्दशशतसूत्रेषु वृत्तेरस्या रचनाकारस्य दुर्गसिंहस्य समयो मन्यते वि० सं०६००-६८० इति, देशो नास्ति निश्चितः । उज्जयिनी कम्पिलानदीसम्बद्धप्रदेशो वा समुद्भावयितुं शक्यते । दुर्गे कातन्त्रव्याकरणात्मके सिंहवदाचरणशीलत्वाद् ‘दुर्गसिंह' इति नाम जातम् । कातन्त्रवृत्तिकारस्य, अमरसिंहस्य, निरुक्तभाष्यकारस्य चाभेदमपि केचिदामनन्ति । ग्रन्थादौ स एवं प्रतिजानीते --
देवदेवं प्रणम्यादौ सर्वशं सर्वदर्शिनम् ।
कातन्त्रस्य प्रवक्ष्यामि व्याख्यानं शार्ववर्मिकम् ॥ कस्मिंश्चिद् हस्तलेखे श्लोकान्तरमप्युपलभ्यते -
ॐकार बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः।
कामदं मोक्षदं देवमोङ्काराय नमो नमः॥ इति । अत्र ओङ्काररूपो देवविशेषो नमस्कृतः । दुर्गवृत्तेर्नामान्तरं 'सिद्धान्तकौमुदी' इत्युपलभ्यते । दुर्गसिंहेन स्वकीयवृत्तौ पूर्वाचार्याणां ग्रन्थानां चापि बहूनि मतानि व्याख्यातानि, क्वचिदाक्षेपसमाधानमपि कृतम् ! अपेक्षितांशानां पूर्तिरपि कृता व्याख्यानप्रदर्शनपुरस्सरम् । एवं पदच्छेदादिपञ्चलक्षणोपेता, उपोद्घात-पद-पदार्थपदविग्रह-चालना-प्रत्यवस्थारूपषड्लक्षणोपेता, उद्देश-लक्षण-विभाग-परीक्षेति लक्षणचतुष्टयोपेता वा या वृत्तिर्मन्यते, तादृशी दुर्गवृत्तिनं साधयितुं शक्यते । सारसम्भृतां वृत्तिमिमां कुलचन्द्र-वर्धमानप्रभृतयस्त्रयोदश आचार्या दुर्गवाक्यप्रबोध-कातन्त्रविस्तरादिग्रन्थरचनया व्याख्यातवन्तः । अस्मादपि हेतोवृत्तिरियं विजयतेऽधुना कातन्त्रव्याकरणवाङ्मये ।
२. कातन्त्रदुर्गवृत्तिटीका [सं० ६००-६८०]
इयमपि कृतिवर्तते दुर्गसिंहस्य | पाणिनीये काशिकावत् टीकेयं राजते कातन्त्रे । ग्रन्थारम्भे वृत्तिकारदुर्गसिंहो भगवत्पदेनाभिहितः - 'इति भगवान वृत्तिकारः श्लोकमेकं -- चकार- देवदेवम्' इत्यादि । तेन वृत्तिकार-टीकाकारयोर्भेद आभाति, परं 'देवदेवम्' इत्यादिश्लोकस्य वररुचिकर्तृकत्वाद् भगवविशेषणेनात्र टीकाकारो वररुचिं स्भरतीति