________________
कातन्वव्याकरणम् बहुभिरितिवृत्तवचनैर्विज्ञायते । तिब्बतदेशे तु एतदीयद्वादशग्रन्थानां भोटभाषायामनुवादः, त्रयोविंशतिटीकानां भोटभाषायां प्रणयनं च संजातम् । एतद् वाङ्मयमद्यापि उपलभ्यते । ८. लोकव्यवहारसमादरकृतं वैशिष्ट्यम्
कातन्त्रे लोकव्यवहारः पाणिनीयादप्याधिक्येन समाद्रियते । तद् यथा – “सिद्धो वर्णसमाम्नायः” (१।१।१) इति सूत्रेण वर्णानां पाठक्रमो लोकप्रसिद्ध एव गृह्यते । अत एवात्र चतुर्दशस्वरेषु दीर्घस्वरा अपि पठ्यन्ते । पाणिनीये दीर्घवर्णा नैव सन्ति । कातन्त्रे ‘ए-ऐ-ओ-औ' इति लोकव्यवहृतः पाठः । पाणिनीये तु कृत्रिमता दृश्यते 'एओ-ऐ-औ' इति पाठे।
कातन्त्रे स्वरवर्णानन्तरमनुस्वार - विसर्ग - जिह्वामूलीय - उपध्मानीया अपि पठिताः, अत एव ते योगवाहा भवन्ति, पाणिनीये पाठाभावादेषामयोगवाहत्वम् । किं च पाणिनीये वर्णसमाम्नाये 'श्-ष्-स्-ह' इत्येतान् हल्वर्णान् विहायान्ये सर्व एव हल्वर्णा व्यत्यासेनैव पठ्यन्ते, तत्रापि च हकारस्य द्विः पाठो व्याख्यानगम्यः ।
लोकव्यवहारसाधकमपरमप्येकं सूत्रं वर्तते - "लोकोपचाराद् ग्रहणसिद्धिः" (१।१।२३) इति । उपचारो व्यवहारः । गृह्यतेऽर्थोऽनेनेति ग्रहणः शब्दः । एतेन लोकव्यवहारात् शब्दसिद्धिर्वेदितव्या इत्यर्थः । केषां शब्दानाम् ? अत्रात्यन्तमनुक्तानां वैदिकानां केषांचिल्लौकिकानां चापि । कलापचन्द्रकारेण कविराजसुषेणविद्याभूषणेनेदमप्युक्तं यद् ये शब्दाः 'वा-अपि' इत्यादिशब्दानां सूत्राणां चाप्यनुवृत्त्या न सिध्यन्ति ते लोकव्यवहारप्रसिद्ध्या साधनीयाः -
वाशब्दैश्चापिशव्दैर्वा शब्दानां (सूत्राणाम्) चालनैस्तथा । एभिर्येऽत्र न सिध्यन्ति ते साध्या लोकसम्मताः॥ इति ।
सम्पादितस्य व्याख्याचतुष्टयस्य परिचयः । १. कातन्त्रदुर्गवृत्तिः [सं० ६००-६८०]
शर्ववर्मोपज्ञः, वररुचिकात्यायनप्रणीतो 'दुर्घट' -वृत्तिग्रन्थश्च सम्प्रति नोपलभ्यते, हरिरामादिकृता व्याख्यासारादयश्चांशत एवोपलभ्यन्ते । भावसेनादिप्रणीताः कातन्त्ररूपमालादयो वर्गविशेषव्याख्यानप्रधाना एव परिलक्ष्यन्ते । 'शिष्यहिता-बालबोधिनी'