________________
भूमिका व्याकरणेऽस्मिन् प्रत्याहाराभावादचो बोधाय "स्वरेऽक्षरविपर्ययः' (२।५।२३) इत्यादौ स्वरपदम्, हलश्च बोधाय “व्यञ्जने चैषां निः" (२।२।३८) इत्यादौ व्यञ्जनपदं च प्रयुक्तम् ।
___ पाणिनीयवैदिकप्रकरणे स्वरार्थं येऽनुबन्धा विहितास्ते कातन्त्रे नैव प्रयुज्यन्ते, अत्र वैदिकप्रकरणाभावात् । ५. अर्थलाघवप्रयुक्तं वैशिष्ट्यम्
लाघवं द्विविधं भवति - शब्दकृतमर्थकृतं चेति । शब्दकृतलाघवेऽर्थबोधो झटिति विलम्बन वा भवेदिति न चिन्त्यते, किं च शब्दानामल्पप्रयोग एव । अल्पशब्दानां प्रयोगेण प्रायोऽर्थबोधे सौकर्यं लाघवं वा न भवति । अर्थलाघवे तु अर्थबोधो झटिति भवेदिति चिन्त्यते । अत एव कातन्त्रे स्वर-व्यञ्जन-अद्यतनी-श्वस्तनीभविष्यन्ती-क्रियातिपत्तिप्रभृतयो महत्यः किं चान्वर्थाः संज्ञाः प्रणीताः सन्ति । अतस्तेषां संज्ञाशब्दानामर्थावबोधे महल्लाघवमापद्यते । पाणिनीये शब्दलाघवं प्रत्याहारप्रयोगे विशेषतो दृश्यते । ६. विपुलवाङ्मयकृतं वैशिष्ट्यम्
व्याकरणस्यास्य शारदा-वङ्ग-उत्कल-ग्रन्थ-देवनागराधक्षरैर्निबद्धं विपुलं वाङ्मयं समुपलभ्यते । वङ्गाक्षरेषु नागराक्षरेषु च केचिद् मुद्रिता अपि ग्रन्थाः सन्ति, परं धातु-गण-उणादि-लिङ्गानुशासन-परिशिष्ट-परिभाषा-शिक्षादिसूत्राणि प्रायेण विविधलिपिमयेषु हस्तलेखेष्वेव विकीर्णानीति तानि महता आयासेनैव लब्धं शक्यन्ते । काश्मीरका राजस्थानीयाश्चानेके कातन्त्रस्य व्याख्यानग्रन्था बालबोधिन्यादयः शारदाक्षरेषु नागराक्षरेषु च निबद्धा बालानामेव कृते प्रायेणोपयोगिनः सन्ति, तदुद्देश्येनैवाचार्यैस्तत्तद्ग्रन्थानां प्रणीतत्वात् । शेषांशपूरणाय कातन्त्रपरिशिष्टकातन्त्रोत्तरादयो ग्रन्थाः पश्चादाचार्यैर्विरचिताः । कातन्त्रमन्त्रप्रकाश-कातन्त्रविभ्रमादयः केचिद् ग्रन्था अवश्यं मननीयं वैशिष्ट्यमापादयन्ति । ७. व्यापकप्रचारकृतं वैशिष्ट्यम्
व्याकरणस्यास्य प्रचारः सीमान्तप्रदेशेषु प्रामुख्येण समभूत् । अङ्गवङ्ग - कलिङ्ग - कश्मीर - राजस्थानादिप्रदेशाः प्रयोगभूमिरस्य । भारताद् बहिः 'श्रीलङ्का - तिब्बत - भूटान' - प्रभृतिविदेशेष्वपि व्याकरणस्यास्य प्रचारो बभूवेति