________________
कातन्त्रव्याकरणम्
३. वेदाङ्गत्वाङ्गीकारवैशिष्ट्यम्
बहवो वैयाकरणकल्पा एवं वदन्ति यद् यस्मिन् व्याकरणे वैदिकशब्दसाधुत्वं नैव दर्शितम्, तन्नास्ति वेदाङ्गम् । किं च वेदाङ्गत्वाभावात् तस्य पुण्यजनकत्वेऽपि संदेहः कश्चिद् वर्तते इत्यादि । अत्र कातन्त्रव्याख्याकाराणामभिमतमिदमवधेयमस्ति - वेदेऽपि लौकिका एव शब्दा बाहुल्येन प्रयुक्ताः सन्ति, 'देवासः- जभार' प्रभृतयोऽल्पीयांस एव वैदिकाः । एवं वेदेऽपि प्रयुक्तानां बहूनां लौकिकशब्दानामेव यस्मिन् साधुत्वान्वाख्यानं वर्तते तदपि वेदाङ्गमेव, नास्ति तस्य वेदाङ्गत्वाभावः । एतेन लौकिकशब्दसाधनपरस्य कातन्त्रव्याकरणस्यान्येषां चापि तथाविधानां व्याकरणानां वेदाङ्गत्वमेव सम्पद्यते ।
अथ च वैदिकसम्प्रदायस्य वैदिकपरम्पराया वाऽविच्छिन्नत्वादल्पीयसां वेदे एव प्रयुक्तानां शब्दानां साधुत्वावबोधाय शास्त्रं नास्त्यावश्यकम् । लौकिकशब्दानां चानन्तत्वात् तेषां साधुत्ववोधो लक्षणमन्तरा न संभाव्यते ।
कातन्त्रे वैदिकशब्दाः कथन्न व्याख्यातास्तेन तेषां साधुत्वं कथमवगन्तव्यमिति समाधानाय कातन्त्रीयं सूत्रमस्ति - "लोकोपचाराद् ग्रहणसिद्धिः' (१।१।२३) इति । गृह्यन्तेऽर्था अनेनेति ग्रहणं शब्दः । दुर्गसिंहोऽपि वृत्तिकार एवं व्याचष्टे
वैदिका लौकिकज्ञैश्च ये यथोक्तास्तथैव ते।
निर्णीतार्थास्तु विज्ञेया लोकात् तेषामसंग्रहः॥ इत्यादि । ४. सूत्रशैलीगतं वैशिष्ट्यम्
पूर्वाचार्याः कार्यिणं प्रथमान्तम्, कार्यं च द्वितीयान्तमेव निर्दिष्टवन्तः । इमामेव पद्धति कातन्त्रकारोऽप्यनुससार । अत एव “समानः सवर्णे दीर्घाभवति परश्च लोपम्” (१।२।१) इति सूत्रे कार्यिणः समानस्य प्रथमया निर्देशः, लोपमिति कार्यस्य च द्वितीयया निर्देशस्तेन कृतः । एवमेव “जारो दीर्घ घोषवति" (२।१।१४) इत्यादिसूत्रेष्वपि पद्धतिरियं दृश्यते । अत्र पाणिनीयः पन्था भिन्न एव ।
सारल्येन विवक्षितार्थावबोधाय “अवर्ण इवणे ए, उवर्णे ओ, ऋवणे अर्, लवणे अल्" (१।२।२-५) इति सूत्रचतुष्टयं कृतम्, यदर्थं पाणिनीयं केवलमेकमेव सूत्रमुपलभ्यते - "आद् गुणः” (६।१।८७) इति । एवम् “एचोऽयवायावः" (६।१।७८) इति पाणिनीयाभिप्रेतार्थे “ए अय्, ऐ आय्, ओ अव्, औ आव्" (१।२।१२-१५) इत्येतानि चत्वारि सूत्राणि पृथक्त्वेन कृतानि ।