________________
भूमिका ४. मणिकण्ठभट्टाचार्यस्य त्रिलोचनचन्द्रिका । ५. सीतानाथसिद्धान्तवागीशस्य संजीवनी । ६. पीताम्बरविद्याभूषणस्य पत्रिका । ७. प्रबोधमूर्तिगणे१र्गपदप्रबोधः । ८. देशलस्य पञ्जिकाप्रदीपश्च । ४. कलापचन्द्रः
विद्याभूषण - कविराजादिविरुदधारिणा आचार्येण सुषेणेन ग्रन्थोऽयं विनिर्मितः । प्रतिज्ञानुसारं विदुषामाह्लादनाय (विनोदाय) पञ्जिकादोषान्धकारविनाशाय चास्य रचना संजाता । मङ्गलश्लोके सः शिवं नमस्करोति, तस्मात् तस्य शैवमतानुयायित्वं प्रसिद्धयति
नत्वा शिवं कृतिकृताप्तनिबद्धसिन्धुमुन्मथ्य सूक्तिमयचारुपयःप्रबन्धम् । ज्ञात्वा गुरोर्विवुधवृन्दविनोदनाय कामं तनोति विकलङ्ककलापचन्द्रम् ॥ श्रीमत्रिलोचनकृताखिलपञिकायां दोषान्धकारनिकरं प्रतिपक्षदत्तम् । निःसार्य सत्पथगतेरपि दर्शकोऽयं कामं भविष्यति मदीयकलापचन्द्रः॥
श्रीविद्याभूषणाचार्यसुषेणेन विनिर्मितः।
आस्तां कलापचन्द्रोऽयं कालापानां मनोमुदे ॥ न केवलमनेन प्रतिज्ञावचनेन किं च कलापचन्द्रस्यानुशीलनेनापि तथ्यमिदमायाति यद् यदि ग्रन्थोऽयं विस्तरेण विषयस्य यथार्थसमीक्षां न कुर्यात् तर्हि प्रमापेक्षया भ्रमाधिक्यं प्रसरेत् कातन्त्रसिद्धान्तावबोधे । पाणिनीयवाङ्मये हरदत्तकृतपदमञ्जरीवदयं कातन्त्रवाङ्मये समाद्रियते ।
सम्पादन- प्रकाशनयोजनापरिचयः
१९६८ तमयीशवीयवत्सरान्मया यद् यावच्च कातन्त्रमधीतम्, तत्र ग्रन्थद्वयं च सम्पादितम्, तदधिकृत्य संप्राप्तानुभवबलेन मया संक्षिप्ता सम्पादनयोजनेयं सम्पूर्णानन्दसंस्कृतविश्वविद्यालयीयप्रकाशनविभागे प्रस्तुता २।२।१९९० तमे दिनाङ्के । तस्याः स्पष्टीकरणं च विस्तरेणानुष्ठितं २०।६।९४ तमदिनाङ्कितपत्रेण । तदनुसारं सूत्र-सूत्रार्थप्रदर्शनपुरस्सरं दुर्गसिंहविरचितायाः कातन्त्रवृत्तेः, कातन्त्रवृत्तिटीकायाः,