________________
८८
कातन्त्रव्याकरणम्
नारदपुराण - " पाठोऽनुनासिकानां च पारायणमिहोच्यते” (५३।८५) ।। १३ ।
१४. अन्तस्था य-र-ल-वाः (१1१1१४ )
[सूत्रार्थ]
'य-र-ल-व' इन चार वर्णों की अन्तस्था संज्ञा होती है || १४ | [दु० वृ०]
‘य-र-ल-व' इत्येते वर्णा अन्तस्थासंज्ञा भवन्ति । अन्तस्थाप्रदेशाः – “उवर्णस्य जान्तस्था - पवर्ग - परस्यावर्णे" ( ३।३।२७) इत्येवमादयः ।। १४ ।
[दु० टी० ]
अन्तस्थाः। स्वस्य स्वस्य स्थानस्यान्ते तिष्ठन्तीत्यन्तस्था उच्यन्ते । यकारस्तालव्यः, रेफो मूर्धन्यः, लकारो दन्त्यः, वकारो दन्त्योष्ठ्यः । तथा च ईषत्स्पृष्टा अन्तस्था इति लिङ्गमवशेष्यं लोकाश्रयत्वात् । वर्णविशेषणमप्यन्तस्थाशब्दः स्त्रियां वर्तते । यथाकलत्रं स्त्रियामपि नपुंसकमिति । लकारस्यान्तस्थासंज्ञया किं प्रयोजनमिति वितर्क्याह“उवर्णस्य जान्तस्था०” (३।३।२७) इत्यादि । 'ग्लान:' इति " आतोऽन्तस्थासंयुक्तात् " (४।६।१०३) इति निष्ठातकारस्य नत्वम् ||१४|
[वि० प० ]
-
-
"
अन्तस्थाः। स्वस्य स्वस्य स्थानस्यान्ते तिष्ठन्तीति अन्तस्थाः । " नाम्नि स्यश्च” (४ | ३ |५) इति कप्रत्ययः, पश्चात् “ स्त्रियामादा" (२ । ४ । ४९) । स्वभावाद् वर्णविषयेऽपि अन्तस्थाशब्दः स्त्रीलिङ्ग एव । तथा च "सपरस्वरायाः सम्प्रसारणमन्तस्थायाः” (३।४।१) इति सूत्रम् || १४ |
[क० च०]
'
अन्तस्थाः । यकारादीनां स्वस्थानानि ताल्वादीनि तदन्तेऽवसाने शेषावयवे तिष्ठन्तीति । एतदेवाह – स्वस्य इत्यादि । अन्तस्थो वर्ण इति जिनेन्द्रस्तदसम्मतमित्याह - स्वभावाद् इति ||१४|
[समीक्षा]
‘अन्तस्था' शब्द के २ अर्थ किए जाते हैं - १. मध्य में स्थित । तदनुसार वर्णसमाम्नाय में स्पर्शसंज्ञक ( क से म तक) तथा ऊष्मसंज्ञक ( श ष स ह ) वर्णों के मध्य में पठित होने के कारण 'य-र-ल-व' की 'अन्तःस्था' संज्ञा होती है ।