________________
LE
कातन्त्रव्याकरणम् सकलपाणिनीयोपदर्शितन्यायेन ऐकपद्यमेव नित्यत्वविधानात् । न चेह एकपदत्वमस्तीति अपदपदयोः समुदायत्वात् तस्माद् विकल्पः स्यादेव, तथा गवित्ययमाह इत्यादावपि पक्षे सन्धिरिति दृश्यते । न्यासादौ 'गो' इत्युक्तः प्रयोगः पदयोरवृत्ती वेति । श्रीपतिदत्तेन पदयोः सन्धिर्विवक्षितो न समासान्तरङ्गयोरिति परिभाषार्थमाकलय्य एव प्रणीतमित्युपेक्षणीयम् इति । तथाहि - अनेन संहिता न विकल्प्यते किन्तर्हि सत्यामपि संहितायां तदाश्रितं सन्धिकार्यमेव । यथा 'नदी ऋछति' । एतच्च "अवर्णे" (१।२।४) इत्यत्र स्फुटीभविष्यति । सन्धिपदस्य संहितापरत्वे पदयोरित्युपलक्षणमेव मन्तव्यम्, तेन पदयोरपि भवति, 'सैवान्यत्र विभाषया' इति सामान्यदर्शनात् । अनु पश्चान्नासिकास्थानमुच्चारणमेषामिति तत्रोभयसापेक्षत्वान्न समास इति कुलचन्द्रः । तन्न, अनुशब्दस्य सम्बन्धिसाकाङ्क्षतया समासे बाधकाभावात् । स्थीयतेऽस्मिन्निति स्थानम् । तदेवोच्चारणम् । उच्चार्यतेऽनेनेति कृत्वा, न तु अन्यस्थानशब्दपर्यायशब्देनार्थकथनमिदमिति । नासिकास्थानोच्चारणस्यानुस्वारस्य इत्यस्य पर्यायशब्दत्वात् समासानुपपत्तेः ।
नहि घटशब्देन कलशशब्दस्य समासः क्वाप्युपलभ्यते । पूर्वं मुखस्थानमित्यादि कण्ठ्यवायोरादौ मुखेन संयोगः पश्चान्नासिकया इत्यर्थः । ते च इत्यादि मुखेनोपलक्षिता नासिका शाकपार्थिवादिदर्शनान्मध्यपदलोपिसमासः, तया उच्चारणं येषां ते तथोक्ताः, तथा वा उच्चार्यन्ते इति कर्मणि युट् । यद् वा मुखं च नासिका चेति । नच वक्तव्यं प्राण्यङ्गत्वात् समाहारे नपुंसकत्वाद् ह्रस्वे सति वचनशब्देन बहुव्रीहौ मुखनासिकवचनमिति स्याद् इति प्रायोऽधिकारेण तत्र व्यभिचारस्य श्रीपतिना दर्शितत्वात् । तथा च - 'छिन्नेषु पाणिचरणेषु' इत्याचार्याः। ननु ङकारञकारयोरनुनासिकसंज्ञायां किं प्रयोजनम्, 'क्रुङ्भ्याम्' इत्यत्र धुट्वाभावाद् ङकारस्य "धुटां तृतीयः" (३।८।८) इत्यनेन तृतीयाभाव एव फलम्, न च तृतीयसंयोगान्तलोपयोः प्राप्तौ 'सर्वविधिभ्यो लोपविधिर्बलवान्' (कात० प० सू० ३६) इत्यादौ संयोगान्तलोपे 'सकृद्गत०' (कात० प० ३८) इति न्यायादेव न पुनस्तृतीय इति वाच्यम्, तस्य प्रायिकत्वात् । किं च परत्वान्नित्यत्वादन्तरङ्गत्वाच्चादौ तृतीय एव भवितुमर्हति । यद् वा उच्यते 'क्रुङ्' इत्यत्र "संयोगान्तलोपे वा विरामे" (२।३।६२) इत्यनेन प्रथमतृतीयौ स्यातामिति प्रयोजनम् । ___'सुकुञ्चि कुलानि' इत्यत्र अकारस्य धुट्त्वाभावान्नकारः पूर्वस्वरात् परो न भवतीति प्रयोजनम् । ननु तथापि संज्ञाया नास्ति प्रयोजनं नकारस्यानुस्वारे प्रकारे