________________
सन्धिप्रकरणे प्रथमः सज्ञापादः नासिकावचनाश्चेति । ननु नासिकायोगान्नासिका इत्युक्तेऽप्युभयवचनत्वं गम्यते स्वभावात् । ङ-अ-ण-न-मा हि निर्दिष्टा इति न नासिकोऽनुस्वारोऽत्र संज्ञी भवितुमर्हति, प्रयोजनाभावाच्च नित्येयं सज्ञेत्याविर्भावार्थमनुग्रहणम् । जङ्घन्यते, बंभण्यते, जंगम्यते इति चेक्रीयिते योऽभ्यासस्तस्य "अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्य" (३।३।३१) इत्यनुस्वारागम इति । ङकारजकारयोः संज्ञया किं प्रयोजनमिति चेद्, "धुड़ व्यञ्जनमनन्तस्थानुनासिकम्" (२।१।१३) इति वचनात् 'क्रुभ्याम्' इत्यत्र धुटां तृतीयो न भवति । 'सुक्रुञ्चि कुलानि' इति अकारस्य धुड्जातित्वं नास्तीति व्यवधानतया स्वरात् परः "घुटि नुः" (धुट्स्वराद् घुटि नुः – कात० २।२।११) न भवति । नकारस्याप्यन्तरङ्गत्वात् प्रागेवानुस्वारो "वर्गे वर्गान्तश्च अकारः" (२।४।४५) इति । ननु संज्ञा नाम लाघवाय क्रियते, संज्ञया विनापि व्यवहारो दृश्यते । “पञ्चमे पञ्चमांस्तृतीयान्न वा" (१।४।२) इति वचनमिदम् अन्वर्थसंज्ञार्थमेव ।।१३।
[वि० प०]
अनु०। अनुशब्दः पश्चादर्थे । अनु पश्चान्नासिकास्थानमुच्चारणम् एषामित्यनुनासिकाः। पूर्व मुखस्थानमुच्चारणं पश्चान्नासिकास्थानमित्यर्थः। अनुग्रहणात् केवलनासिकास्थानोच्चारणस्यानुस्वारस्य नेयं सञ्ज्ञा । ननु ङ-अ-ण-न-मा एव सूत्रे निर्दिष्टास्तत्कथमनुस्वारस्य प्रसङ्गः ? येनानुग्रहणं तेन च सामर्थ्यान्मुखनासिकावचना एव । नहि ते केवलेन मुखेन नासिकया वा उच्चारयितुं शक्यन्ते एवेति ? सत्यम्, पूर्वाचार्यप्रसिद्धा सज्ञेयमन्वर्थेति ।। १३।
[क० च०] __ अनु० । ननु ङ-ञ-ण-न-मा इति कथं विसन्धिः ? अत्र कुलचन्द्रः- इतिशब्दस्य वर्ण (वन्तु) स्वरूपग्राहकत्वाद् उच्चारणार्थेनाकारेण सह सम्बन्धो नास्तीति सन्धिर्न कृतस्तत्सान्निध्यस्यानिवार्यत्वादिति । नहि अर्थद्वारक एव सम्बन्धे सन्धिरिति नियमोऽस्ति । तस्माच्छब्दस्य यथाश्रुतवर्णप्रतिपादकत्वान्न सन्धिरिति । संहिताविरहादेवात्र न सन्धिरिति । न च वक्तव्यं विभक्त्युत्पत्त्यभावेन पदत्वाभावात् पदयोरवृत्तौ वेत्यस्याविषयत्वेन नित्यैवात्र संहितेति । यतः -
संहितैकपदे नित्या नित्या धातूपसर्गयोः। सूत्रेष्वपि तथा नित्या सैवान्यत्र विभाषया ॥इति ।