________________
७२
कातन्त्रव्याकरणम्
तत्र सामीप्यार्थस्य ग्रहणे सति एकारस्य सन्ध्यक्षरसंज्ञा न स्यात् । तस्योपलक्षणत्वात् तत्समीपवर्तिनामेकारप्रभृतीनामेव स्यात्, उपलक्षणस्य कार्येऽनुपयोगित्वात् । यथा - चित्रगुरानीयताम् इत्युक्ते चित्रगवोपलक्षितः पुरुषः एवानीयते, न तु चित्रा गौरिति । अथ विशेषाभावादस्त्वेवमिति चेत्, नैवम् “न व्ययतेः परोक्षायाम्" (३।४।२१) इत्याकारप्रतिषेधात् । तत्र हि सन्ध्यक्षरान्तानां धातूनामाकारे (३।४।२०) विधीयमाने कथमेकारान्तस्य व्ययतेः प्रसङ्गः, येन प्रतिषेधोऽर्थवानिति ।
व्यवस्थार्थोऽपि नैव, अव्यभिचारात् । वर्णसमाम्नायो हि क्रमसिद्ध एव घटते, किन्तत्र व्यवस्थया | प्रकारार्थोऽपि न घटते, यतः प्रकारः सादृश्यं तच्च परस्परवैसादृश्यं बिभ्राणेषु सन्ध्यक्षरेषु कथं सम्भवति । अवयवार्थः पुनर्निर्विवाद एव घटते । एकार एवादिरवयवो येषां तान्येकारादीनि । अत एव तद्गुणसंविज्ञानो बहुव्रीहिरयं समुदायेऽवयवस्यान्तर्भावात् । एवन्तर्हि समुदायस्यैकत्वाद् बहुवचनम् अनुचितमिति चेत्, सत्यम् । समुदायिन एव समुदाय इति दर्शने बहुवचनम्, व्यतिरिक्तसमुदायपक्षस्तु नेहाश्रित इति | अन्वर्थसंज्ञा चेयं सन्ध्यक्षराणि । एकारैकारयोः पूर्वभागोऽकारः, परश्च भाग इकारः । ओकारौकारयोः पूर्वभागोऽकारः परश्च भाग उकार इति ।।८।
[क० च०]
एका०। आदिशब्दः करणसाधनो धर्मवृत्तिः प्राथम्यमादाय चतुर्वर्थेषु वर्तते । तत्रावयवत्वेऽवयवान्तरापेक्षया प्राथम्यात् समुदायापेक्षयाऽवयवत्वं बोद्धव्यम् । अत्रावयवत्वं सामीप्यं च नादिशब्दार्थः, किन्तु प्राथम्यमेव उभयत्र युगपत् शक्तिकल्पने गौरवात् । अवयवत्वसामीप्यार्थी सम्बन्धिगतषष्ठ्युपस्थाप्यावेव । यथा शरीरस्यादिः, ग्रामस्यादिः। तत्रावयवत्वेन शरीरसम्बन्धी सामीप्यत्वेन च ग्रामसम्बन्धी भवन् अवयवान्तरापेक्षया समुदायापेक्षया च प्रथमो भवतीति गम्यते । अत एव तात्पर्यवशाद् आदिशब्दस्य सामीप्यार्थत्वमवयवार्थत्वं च इति सिद्धिः।
__ अन्ये तु सामीप्यादावप्यादिशब्दस्य शक्तिरस्तीत्याहुः । व्यवस्थाप्रकारौ तु अवयवसामीप्यान्तर्गतौ । ननु चित्रगवोपलक्षित इति कथमुक्तम्, चित्रा चासौ गौश्चेति कर्मधारये राजादित्वादति कृते "स्त्रियामी" (१।७।१-४) प्रत्यये-छ चित्रगव्युपलक्षित इति भवितुमर्हति ? सत्यम् ।समासान्तविधेरनित्यत्वात् (काला०परि०३९)