________________
७३
सन्धिप्रकरणे प्रथमः सज्ञापादः इत्यत् - प्रत्ययाभावादीप्रत्ययो न स्यात् । ततश्च वर्णागमने तृतीयान्तेन वा रूपसिद्धिः । तथा च दृश्यते महाकवि-प्रयोगे -
केनात्र चम्पकतरो बत रोपितोऽसि कुग्रामपामरजनान्तिकवाटिकायाम् । यत्र प्रवृद्धनवशाकविवृद्धलोभगोभग्नवाटघटनोचितपल्लवोऽसि ॥
अत्र विवृद्धलोभगोशब्दयोः कर्मधारयेऽपि अत्प्रत्ययस्यानित्यत्वम् । 'सुभूतिस्तु राज्ञो गोः क्षीरं राजगोक्षीरम् इति । भाष्यकृता त्रिपदसमासस्येष्टत्वात् “आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी" (अ० को० १।४।५) इति अमरसिंहप्रगोगे चित्रगवोपलक्षित इत्यत्र तदहर्जातस्तदहर्दिनम् इत्यत्र पदत्रयेण सामान्यसमासो बहुलाधिकारात् । यदा तु द्विपदसमासस्तदा चित्रगव्युपलक्षितमिति भवतीति व्याचष्टे, तदा च प्रकृते चित्रया गवा उपलक्षित इति सामान्यसमासवाक्ये गोशब्दादपि अकारवर्णागमे सतीदं पदं सिद्धम् । अन्ये तु मन्यन्ते चित्रा गौरिति पञ्जीपाठे पुंसा निर्देशः । विशेषाभावादिति । अथ सामीप्यार्थस्य ग्रहणे को दोषः, एकारस्य सन्ध्यक्षरसंज्ञा न स्यादिति चेत् तर्हि ऐकारादीनीति कृतं स्यात् । ननु तथापि स एव दोष इलि चेत्, न । बहुवचनासङ्गतेः सिद्धान्तान्तरम् आह - नैवम् इति । अवयवार्थः पुनर्निर्विवाद एव घटत इति, एतेनान्योऽपि पक्षः सविवादो घटत इति ध्वनितम् ।
तथा हि एकारादिक्रमेण व्यवस्थितानि सन्ध्यक्षरसंज्ञकानि भवन्ति, किन्तु वर्णसमाम्नायस्य क्रमसिद्धत्वात् किं पुनर्व्यवस्थयेति सविवादता । तद्गुण इति तस्य गुणस्य उपसर्जनस्य सम्यग् विज्ञानं कार्यार्थयोर्यत्र इति भिन्नाधिकरणोऽयं बहुव्रीहिः । नन्ववयवो हि समवायिकारणमुच्यते, एकारस्तु कथं समुदायस्य समवायिकारणमित्याह - समुदायस्य इत्यादि । समुदायिन एव समुदाय इति ये समुदायिनः सकाशाद् भिन्नं समुदायं मन्यन्ते तन्मतमवलम्ब्योक्तम् । ननु यदि समुदायिन एव समुदाय इत्यभेदादेकारादीनीति बहुवचनम्, तदा समासवाक्ये येषामिति कथं बहुवचनम् । न ह्यत्रापि अभेद इति वाच्यम्, भेदलक्षणायाः षष्ठ्याः स्वभावात् ? सत्यम्, एकस्यापि समुदायस्य विवक्षयानेकत्वम् ।
१. सुभूतिचन्द्राभिधः आचार्योऽमरकोशस्य 'कामधेनु' नाम्नी टीकामेकां प्रणिनाय, अपि च 'सुबन्तरत्नाकर' नामक ग्रन्थं रचितवान् । यस्य पञ्च हस्तलेखा नेपालदेशे सुरक्षिताः सन्ति - (द्र०, संस्कृत के बौद्ध वैयाकरण- पृ० १५३, १८९-९०)।