________________
सन्धिप्रकरणे प्रथमः सज्ञापादः
७१ ४।१।३०) प्रसज्येत । 'याता, वाता' इत्यत्र "अस्य च लोपः" (३।६।४९) स्यात् । नैवम्, अव्यवपृक्तेषु दृष्टो विधिर्न व्यवपृक्तेषु भवितुमर्हति । यथा - तैलं न विक्रेतव्यम् इत्युक्ते व्यवपृक्तास्तु तिला विक्रीयन्ते एवेति । येषामिदं दर्शनं तेषां "कृपे रो लः" (३।६।९७) इति ऋकारस्थस्य रेफस्य लुकारस्थस्य लकारस्य चार्द्धस्य सम्पूर्णस्य वा सामान्यनिर्देशेन निर्विशेषाल्लत्वं सिद्धम् । मातृणामिति णत्वार्थम् ऋवर्णग्रहणं कर्तव्यम्, स्वरभागेन व्यवधानादिति । न हि स्वरभागः स्वरो भवितुमर्हति, येन स्वरान्तरत्वाण्णत्वं स्यात्, इह तु पृथक् प्रयत्नसाध्य एव वर्ण उच्यते। वर्णैकदेशास्तु वर्णच्छायानुकारिणो न पुनस्त एव । यथा - मरुमरीचयो जलच्छायामनुकुर्वते, न तु जलम् । 'क्लृप्तः' इत्यत्र ऋकारस्य लुकारः प्रतिविधातव्य एव । सन्ध्यक्षरेषु पृथक् प्रयत्नसद्भाव एव उभयाकारप्रतिपत्तेरुभयशब्दप्रयोगो नरसिंह इति ।
तथा च ए-ऐ कण्ठतालव्यौ, ओ औ कण्ठ्योष्ठ्यौ इत्येकैकस्य स्थानद्वयव्यापार इति । तथा च सन्ध्यक्षराणामिदुतौ ह्रस्वादेश इति न्यायोऽयम्, अन्यथा ‘अतिरि, अतिनु' इत्यत्र "स्वरो हस्वो नपुंसके" (२।४।५२) इति स्वरो ह्रस्वो भवन्नकारोऽपि राप्नोति । तथा 'अग्ने इन्द्र, पटो उदकम्' इति समानदीर्घप्रसङ्गश्चेत्, नैवम् । केवलानां समानसंज्ञाविधानात् । तर्हि गौरित्यत्रानेकवर्णत्वात् सर्वस्यौकारो ‘देहि, धेहि' इति "दाऽस्त्योरेऽभ्यासलोपश्च" (३।४।५०) इति । द्यौरिति “औ सौ" (२।२।२६), नैवम्, अनेकवर्णः सर्वस्येति लोकप्रसिद्ध एव वर्णो गृह्यते इति पूर्वस्माद् योगात् स्वरोऽनुवर्तते, तेन एकारादीनि स्वरनामानीति । तच्च किमर्थम् ‘शक्ता, वक्ता' इति सन्ध्यक्षरसंज्ञया आत्वं स्यात्। अथ अन्वर्थसंज्ञया न भविष्यति तर्हि संज्ञयापि किम् ? सज्ञापूर्वको व्यवहारः शिष्यावबोधनार्थ इति ।। ८ ।
[वि० प०]
एकारादीनि । एकार एवादिर्येषां तान्येकारादीनि । आदिशब्दः सामीप्यादिषु चतुर्वर्थेषु वर्तते । तद् यथा - ग्रामादौ घोषः, ग्रामसमीपे इत्यर्थः । व्यवस्थायाम् - वर्णा ब्राह्मणादयः, अनवच्छिन्नक्रमेण व्यवस्थिता इत्यर्थः । प्रकारे - आन्या देवदत्तादयः, देवदत्तसदृशा इत्यर्थः । अवयवे - स्तम्भादयो गृहाः, स्तम्भावयवा इत्यर्थः । तथा चापिशलीयाः पठन्ति -
सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा। चतुर्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत् ॥ इति ।