________________
७०
कातन्त्रव्याकरणम्
काशकृत्स्नव्याकरण में इसका व्यवहार दृष्ट होने से इसकी प्राचीनता सिद्ध होती है- "नामिनो गुणः सार्वधातुकार्धधातुकयोः, स्थूलदूरयुवहस्वक्षिप्रक्षुद्राणामन्त्यस्वरादेर्लोपो गुणश्च नामिनाम्" (काश० धा० व्या०, सू० २२, १३६) । युधिष्ठिर मीमांसक ने प्रमादवश ८ ही स्वरों की नामिसंज्ञा का उल्लेख किया है (द्र०, काश० धा० व्या०, पृ० ४४, टि० २) ।।७।
८. एकारादीनि सन्ध्यक्षराणि (१।१।८) [सूत्रार्थ]
स्वरसंज्ञक वर्षों में से 'ए ऐ ओ औ' इन चार वर्णों की सन्ध्यक्षर संज्ञा होती है ।।८।
[दु० वृ०]
एकारादीनि स्वरनामानि सन्ध्यक्षरसंज्ञकानि भवन्ति । ए ऐ ओ औ । सन्ध्यक्षरप्रदेशा:- “सन्ध्यक्षरे च" (३।६।३८) इत्येवमादयः ।।८।
[दु० टी०]
एकारादीनि । सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे चादिशब्दो दृश्यते | सामीप्ये यथा- 'ग्रामादौ घोषः' । व्यवस्थायाम् – वर्णा ब्राह्मणादयः । प्रकारे – ‘आढ्या देवदत्तादयः' । अवयवे – 'स्तम्भादयो गृहाः' इति । तत्र सामीप्ये पुनरेकारस्य न सन्ध्यक्षरसंज्ञा स्यात्, उपलक्षणस्य कार्येऽनुपयोगित्वात् । यथा चित्रगुरानीयताम् इत्युक्ते चित्रगवोपलक्षितः पुरुष एवानीयते, न तु चित्रा गौरिति । एवं सति सन्ध्यक्षरान्तानामाकारादेशे "न व्ययतेः परोक्षायाम्" (३।४।२१) इत्यनर्थकमेव । व्यवस्थापि नैव, व्यभिचाराभावाद् वर्णसमाम्नायो हि क्रमसिद्ध एव | प्रकारश्च सादृश्यम्, तच्च न संभवति । सन्ध्यक्षराणि हि सदैव परस्परविसदृशानि, तस्मादेकारादिरवयवो येषां तान्येकारादीनि । तद्गुणसंविज्ञानो बहुव्रीहिरयं समुदायेऽवयवस्यान्तर्भावात् । ___अथ समुदायस्यैकत्वात् कथं बहुवचनमिति चेत्, समुदायिभ्योऽन्यः समुदायोऽन्यो वा । अनन्यपक्षे बहुवचनम्, अवयवा एवावयविन इति | सन्धावक्षराणिं सन्ध्यक्षराणीति | तथा चैषांपूर्वभागोऽकारः एकारैकारयोः परो भाग इकारः ।ओकारौकारयोश्चोकारश्चेति । ननु दीर्धेषु ह्रस्वाः सन्ति, ऋकारे त्रय स्वरभागास्तन्मध्यवर्ती तुरीयो रेफः, लृकारे लकारश्च । तदा ‘प्रलीय, प्रलूय' इति ह्रस्वाश्रयः "तोऽन्तः' (धातोस्तोऽन्तः पानुबन्धे