________________
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः व्यक्त्यन्तरापेक्षया सवर्णत्वमस्तीति चेत् तर्हि समानानुवृत्तिप्रकार एवायं भवतु, तर्हि समानानुवृत्तिरेवेति चेत्, न, “गोरौ घुटि" (२।२।३३) इति ज्ञापकात् । कथमन्यथा अनामिन ओकाराद् विसर्गस्य रेफः स्यादिति ।
यद्येवं दृष्टानुवृत्तिकतया वर्णसमाम्नाय एवानुवर्तताम् । ततो वचनविपरिणामप्रयासश्च परिहतो भवति, नैवम् । व्यञ्जनस्यापि नामित्वप्रसङ्गः स्यात् । न च "नामिकरपरः" (२।४।४७) इत्यादौ करग्रहणसामर्थ्याद् व्यञ्जनस्य नामित्वं न भवतीति वाच्यम्, नियमार्थेनैव तस्य चरितार्थत्वात् । तर्हि "नामिव्यञ्जनान्ताद् आयेरादेः" (३।६।४२) इत्यत्र नामिग्रहणेनैव सिद्धे यद् व्यञ्जनग्रहणं तद् बोधयति - व्यञ्जनानां नामित्वं नास्तीति चेद् अनुस्वारविसर्जनीययोरपि नामित्वं स्यात् ।
नैवम् । “नामिकरपर०" (२।४।४७) इत्यत्र नुविसर्जनीयग्रहणान्न भविष्यति । अन्यथा नामिद्वारेणैव सिद्धे नुविसर्जनीयग्रहणमनर्थकं स्यात् चेत्, न । सर्वत्रैव वर्णसमाम्नायस्य सप्तम्यन्तत्वेनैव वर्तमानत्वात् । कथमत्र प्रथमान्तत्वेनावृत्तिः स्यात् | भवतु वा । तथापि स्वरानुवर्तनप्रकार एवायं भवतु नाम स्वराणामेवानुवर्तनं साध्यस्य सिद्धेः किं पुनः स्वरग्रहणेन । ततोऽन्वर्थवशाद् विभक्तिविपरिणामे सति अवर्णवर्जः स्वरो नामीत्यर्थो भविष्यतीत्याह - स्वरग्रहणमित्यादि | स्वरग्रहणमुत्तरार्थमिति कुलचन्द्रः । एतेन एकारादीनि स्वरनामानीति वक्ष्यति, यदि नामिग्रहणमनुवर्तिष्यते तदा शङ्कानिरासार्थमिति ।।७।
[समीक्षा]
टीकाकार – पञ्जिकाकार आदि व्याख्याकारों के अनुसार नामी का अर्थ है वे वर्ण (हस्व-दीर्घ), जिनके उच्चारण में ध्वनि का स्पर्श ऊपर की ओर न होता हो । ऐसा देखा जाता है कि अवर्ण के उच्चारण में तो ध्वनि का स्पर्श ऊपर की ओर होता है, परन्तु इ से लेकर औ तक के स्वर वर्णों की उच्चारणध्वनि नीचे की ओर ही होती है । इसीलिए अवर्ण को छोड़कर नामी संज्ञा की गई है । पाणिनि ने इसके लिए ‘इच्' प्रत्याहार का प्रयोग किया है । 'नमनमिति नामः सोऽस्यास्तीति नामी' इस व्युत्पत्तिलभ्य अर्थ का इकारादि संज्ञियों में अन्वय होने के कारण यह संज्ञा अन्वर्थ है जबकि उक्त वर्गों के लिए पाणिनिद्वारा किया गया 'इच्' प्रत्याहार का प्रयोग विशुद्ध यादृच्छिक ही है ।