________________
कातन्त्रव्याकरणम्
६८
जातिरेव पदार्थ इति पक्षे यथा गोशब्देन गोत्वमभिधीयते, तथा अवर्णशब्देन अवर्णत्वम् उच्यते । ततश्चावर्णत्वात्यन्ताभाववान् यः स्वरः स नामीत्यर्थः ।
अथवा अवर्णशब्देन अवर्णव्यपदेश उच्यते अवर्णव्यपदेशात्यन्ताभाववान् इत्यर्थः। ननु तथापि सन्ध्यक्षरे पूर्वभागस्यापि अकारत्वात् तद्वर्जनं कथं न स्यात्, नैवम् । तत्रावर्णव्यवहाराभावात् । तथा चेत्यादि । ननु वर्णानामेव ध्वनिरूपत्वात् कथम् 'अमीषाम्' इति षष्ठी, भेदाभावात् । सत्यम्, 'राहोः शिरः' इतिवत् सत्यप्यभेदविवक्षा इति न दोषः । यद् वा अमीषाम् इत्यनेन ह्रस्वदीर्घभेदेनेति योजनीयम् | ऊर्ध्वम् इति । ननु यदि ऊर्ध्वं स्पृशतीत्युच्यते तदा कथमीकारादीनामुदात्तव्यपदेश इति ।
अत्र कुलचन्द्रः - नामिनो वर्णाः स्थानेन वैदिकहस्तस्वरेण ऊर्ध्वमाददते न ध्वनिनेति भावः । अवर्णस्तु ध्वनावपि ऊर्ध्वमादत्ते इति, तन्न, वर्णातिरिक्तो ध्वनिरस्ति शब्दानित्यताभावादेव वर्णातिरिक्तध्वनिपक्षस्य निराकृतत्वात् । तस्मादिदमेव युक्तम्, अवर्णवद् ऊर्ध्वं न स्पृशतीत्यर्थः । अत एव पञ्जिकायामपि प्रश्लेषो व्याख्यायते, तथाहि न अ-आ इव ऊर्ध्वं नैवोर्ध्वम् । यद्येवमः र्णवर्जनमनर्थकम्, अन्वर्थादेिव अवर्णवर्जनसिद्धेः। अन्यथा विशेषाभावे स्वरसंज्ञयैव व्यवहारसिद्धेर्नामिसंज्ञाविधानमनर्थकं स्यात् । नैवम्, “ तत्र चतुर्दश०” (१।१।२ ) इत्यादौ चतुर्दशादिग्रहणवत् संज्ञानुवादार्थमिति । किञ्च इनोऽतिशयनार्थशङ्कया ह्रस्वस्यैव स्यान्न दीर्घस्येत्यपि प्रतिपद्येत । तस्मात् कर्तव्यमेवावर्णवर्जग्रहणम् । ननु स्वरग्रहणं किमर्थम्, प्रस्तुतत्वात् स्वरा एवानुवर्त्तिष्यन्ते । नच दीर्घानुवृत्तिरिति वाच्यम्, आवर्जमित्यकरणात् |
!
अथ प्लुतव्यवच्छेदार्थं वर्णग्रहणमिति चेत्, न । एकजातीयत्वादावर्जनेनैव तस्यापि वर्जनात् तर्हि इष्टाधिकारत्वात् सवर्णानुवृत्तिः स्यात् ? सत्यम्, नामिनाविति द्विवचनाकरणात् । अथ तथापि अर्थवशाद् वचनव्यत्ययेन सवर्णा एव नामीत्यर्थः कथं न स्यात् । यत्तु अर्थवशाद् विभक्तिविपरिणामो न वचनस्येति " ह्रस्वोऽम्बार्थानाम् " (२।१।४०) इति कुलचन्द्रेणोक्तम्, तत्तुच्छम् । आकाङ्क्षाः सत्त्वे हि यावतैवार्थोपपत्तिस्तावतैव ऊहनीयत्वात् । अत एव "न व्यञ्जने स्वराः सन्धेयाः " ( १ । २ । १८ ) इत्यतः स्वरग्रहणमेकवचनान्तीभूय " द्विवचनमनौ' : (१ । ३ । २) इत्यनुवर्तते इति वक्ष्यति, तर्हि "नाम्यन्तयोर्धातुविकरणयोर्गुणः " ( ३।५।१) इति न सङ्गच्छते, वर्णद्वयस्य सवर्णसंज्ञत्वात् । भवति करोतीत्यादौ धातुविकरणयोः सवर्णत्वाभावान्नाम्यन्तत्वानुपपत्तेः । अथ प्रयोगे उभयाभावेऽपि प्रयोगान्तरस्थित
-