________________
६७
सन्धिप्रकरणे प्रथमः सञ्जापादः [दु० टी०]
स्वरः। वर्जनयोग्यमवर्णं वर्जयतीति प्राप्ये कर्मण्यण (४।३।१)। नमनं नामः, सोऽस्यास्तीति नामी । तथा चैषां ध्वनिर्हस्वदीर्घभेदेन तत्र ध्वनिर्निःसरति न चोर्ध्वं स्पृशति । स्वरग्रहणं चेह समाननिवृत्त्यर्थं चेदयुक्तम्, नामीत्येकवचनान्तत्वात् । तथाहि - पूर्वो हि समानशब्दो बहुवचनान्तस्तत् सुखप्रतिपत्त्यर्थं बहुवचनान्तमेव विदधीत । तर्हि अनन्तरत्वाद् दीर्घो वा नामी स्यात् । अग्निर्गतो वायुरत्र नीचैर्यातो गौरिहेति ह्रस्वात् सन्ध्यक्षराच्च न विसर्जनीयो रमापद्यते । ननु सन्ध्यक्षराणां नामिसंज्ञास्ति, ग्लायति - म्लायतीति कथं गुणो न भवति ? सत्यम्, ऐकारोपदेशबलात् । वर्जग्रहणं 'नत्रा निर्दिष्टमनित्यम्' (का० परि० ३७) इति ज्ञापनार्थमेव ।।७।
[वि० प०]
स्वरः। अवर्णं वर्जयतीति प्राप्ये "कर्मण्यण" (४।३।१)। नमनं नाम इति भावे घञ्, सोऽस्यास्तीति नामी। तथा च अमीषां ह्रस्वदीर्घभेदेन स्वत एव ध्वनिरुच्चरति, नैवोज़ स्पृशति इति । अनन्तरत्वाद् दीर्घोऽनुवर्तते इति शङ्कानिरासार्थं स्वरग्रहणम् । 'स्वरोऽनवर्णो नामी' इति सिद्धे यद् वर्जग्रहणम्, तत् 'नत्रा निर्दिष्टमनित्यम्' (कालाप-परि० ३७) इति ज्ञापनार्थम्, तेन 'पित्र्यम्' इत्यादयः सिद्धाः ।।७।
[क० च०]
स्वरः। प्राप्ये कर्मण्यण् इति । यद्यपि 'आदित्यं पश्यति' इत्यादौ प्राप्ये कर्मण्यण् नास्ति, तथापि अभिधानादित्यर्थः । अवर्णं वर्जयतीत्यादि । ननु कथमवर्णवर्जः स्वर इति विवृतम् । वर्जनं हि परित्यागः, नहि स्वरोऽवर्णं वर्जयति अवर्णस्यापि स्वरत्वात् । किन्तर्हि नामिसंज्ञाप्राप्तिदशायां ततश्च निषेधस्य प्राप्तिपूर्वकत्वात् स्वरो नाम्यवर्णवर्ज इति निर्देशो युज्यते ? सत्यम्, नामिसंज्ञाप्राप्तिदशायां स्वरोऽवर्णं वर्जयिष्यतीति कृत्वा तत् पूर्वदशायामपि योग्यतया अवर्णवजामत्युच्यते । क्रियायोग्यतयैव कृदन्तस्य प्रयोगात् । यथा अपचन्नपि सूपकारः पाचक इति ।
ननु तथापि अवर्णवर्जशब्दस्य कतमोऽर्थेऽवर्णात्यन्ताभाववत्त्वं तत्सम्बद्धाभाववत्त्वं वा ? न तावदाद्यः । अवर्णस्यापि अवर्णात्यन्ताभाववत्त्वान्नामित्वप्रसङ्गात्, न ह्यवर्णोऽवर्ण वर्तते । नापि द्वितीयः । नयतीत्यादौ ईकारस्य एकारपदनिबन्धनादवर्णसम्बन्धस्य विद्यमानत्वात् । ततश्च नामित्वाभावाद् गुणो न स्यात् । अत्रोच्यते -