________________
6
.
कातन्त्रव्याकरणम्
(१।१।१७)। मुग्धबोधव्याकरण - "अपोऽक् समो र्ण ऋक् च, चपोदिताकानिता ":"(१।१।६, ७)। देवनन्दी, शाकटायन तथा हेमचन्द्र ने सवर्ण के लिए सादृश्यवाची स्वशब्द का एवं बोपदेव ने सवर्ण के एकदेश र्ण का ही व्यवहार किया है ॥४।
५. पूर्वो हस्वः (१।१।५) [सूत्रार्थ] सवर्णसंज्ञक दो दो वर्गों में से पूर्ववर्ती वर्ण की ह्रस्व संज्ञा होती है।।५। [दु० वृ०]
द्वयोर्द्वयोः सवर्णसंज्ञयोर्यो यः पूर्वो वर्णः स स ह्रस्वसंज्ञो भवति । अ इ उ ऋ लू । ह्रस्वप्रदेशा:- "स्वरो हस्यो नपुंसके" (२।४ |५२) इत्येवमादयः ।।५।
[दु० टी०] ___ पूर्वः । पूर्वादयो हि दिग्देशकालाभिधायिनः । अयं पुनरिह देशवृत्तिरेव । नन्वेकोऽयं पूर्वशब्दः कथमनेक पूर्वार्थमभिधत्ते । अथैकोऽपि शब्दोऽनेकार्थस्याभिधायको दृष्ट इति । यथा द्यावापृथिव्यो रोदसीशब्दः, एवं सति बहुवचनं प्रतिपद्येत । नैवम्, द्वौ द्वौ सवर्णी तयोर्मध्ये यः पूर्व इत्युक्तेऽगृहीतवीप्सोऽयं पूर्वशब्दो वीप्सार्थं गमयतीत्याह - यो यः पूर्व इति । लुकारस्य तु ह्रस्वत्वविवक्षायां हे क्लू !, ह्रस्वात् सम्बुद्धेः सेर्लोपो भवति । अचीक्लृपद् इति । अत्र च लुकारे ह्रस्वे लघुसंज्ञे सत्यभ्यासस्येनि चण्परे सन्वत्कार्यं भवतीति ।।५।
[वि० प०]
पूर्व० । निरन्वयेयं संज्ञा तथा दीर्घसंज्ञापीति । अथ कथमिह वीप्सा गम्यते ? सत्यम्, तेषामित्यतो द्वौ द्वौ सवर्णावित्यनुवर्तते, तदनुवृत्तौ चानेकसंज्ञिनः प्रतीयन्ते । पूर्वशब्दश्चायमनेकार्थत्वाद् यद्येकं पूर्वमाचक्षीत तदा न सकलस्य संज्ञित्वमुक्तं स्यात् तस्माद् द्वौ द्वावित्यनुवृत्तिसामर्थ्याद् अनेकस्य संज्ञिनः सम्भवादेवागृहीतवीप्सोऽयं पूर्वशब्दो वीप्सां गमयतीत्याह - यो य इति ।। ५ ।