________________
सन्धिप्रकरणे प्रथमः सजापादः [क० च०]
पूर्वः । अथ पूर्वशब्दोऽयं न तावद् दिक्कालवाचकः, वर्णस्य तद्भावासम्भवात्, नापि देशवाचकस्तस्यापि दिक्कालावच्छेदेनैव वाचकत्वात् । न हि भवति दक्षिणे पश्चिमे वाऽयं पूर्वदेशः इति, तस्मादत्र पूर्वशब्देन किमुक्तमिति विकला वैयाकरणाः । अत्र कुलचन्द्रः- नायं पूर्वशब्दो व्यवस्थावचनः, किन्तु क्रमावस्थितानां प्रथमपर्यायः, सोऽपि क्वचित् कालदेशवृत्तिः। यथा कायस्य पूर्व इति । तन्न, पूर्वशब्दस्य पूर्वकालावच्छिन्नदेशवृत्तितयात्र व्यवस्थावाचित्वात् । व्यवस्था चात्र दिग्देशकालानामवधिनियमः । स चात्र व्यभिचारादेव घटते इति । तर्हि द्वयोरिति कथं षष्ठी, "दिगितरर्तेऽन्यैश्च" (२१४।२१) इति पञ्चम्या विषयत्वात् । नैवम, सवर्णयोर्मध्ये यः पूर्व इत्यवधारणार्थत्वात् । अवधिविवक्षायां तु तविषय इति । अथ हसति अल्पं ध्वनतीति हस्वः । एवं मुखं दीर्य्यते इति दीर्घ इति कुलचन्द्रेणान्वर्थः कृतः । तन्न,
औणादिकानामव्युत्पन्नत्वेन योगार्थाभावात् “गमादे?" (गमेझैः कात० उ० २।२८) प्रत्ययादिना साधितेषु गोशब्दादिषु योगार्थानङ्गीकारात्, स्वरादीनां यादृशोऽन्वयस्तादृशाभावाच्च ह्रस्वत्वयोगाद् ह्रस्व इत्यादिकन्तु वर्णानां धर्मकथनमात्रं नान्वय इत्याह - निरन्वयेयं संज्ञा इति ।
ननु सकृदुच्चरितः शब्दः सकृदर्थं गमयितुमर्हति न तु वीप्सार्थमित्याह - अप इति । तस्माद् इत्यादि । ननु तावदयमर्थो यदि द्वौ द्वावित्यनुवर्तते लाघवात् तेषां ग्रहणमेवानुवर्तते । लाघवं च यद् द्वयोरिति प्रथमार्थे षष्ठीविपरिणामो न क्रियते ततश्च तेषां समानानां मध्ये यः पूर्वः स ह्रस्व इत्यर्थः । स च पूर्वो वर्णोऽकार एव । नैवम्, अह्रस्व इत्यकरणात् तेषामिति नानुवर्तते । एतदर्थं न बुद्ध्वा हेमकरेण एकस्य पूर्वस्य संज्ञायाम् अह्रस्व इत्यादिकं करोतीति कुसिद्धान्तोऽयमिति यदुक्तं तत्तुच्छमेव । तेषां ग्रहणनिवृत्तावेतसिद्धान्तं विना द्वौ द्वावित्यनुवर्तनाभावाद् वीप्सार्थलाभो न स्यादेव । ____एतेन पूर्वसूत्रटीकायां यद् द्वौ द्वौ ग्रहणं प्रतिपत्तिगौरवनिरासार्थमुक्तं तत् पूर्वस्मिन्नेव, इह तु प्रयोजनार्थमिति सूचितम् । तस्माद् अहस्व इत्यकरणाद् हेतोः सर्वेषां संज्ञित्वमुक्तं तस्मादित्यर्थः। द्वौ द्वावित्यनुवर्तनं सहायमासाद्य यत् सामर्थ्यग्राह्यं तेनेत्यर्थः। पूर्वशब्दः समर्थोऽभूदिति साभिप्रायवचनम् । अगृहीतवीप्स इति अकृतद्विर्वचन इत्यर्थः । सवर्णयोरिति यद् वृत्तौ विवृतं तद् यदृच्छयैव, न तु कार्यार्थम् ।