________________
कातन्त्रव्याकरणम्
तथाहि, ननु द्वौ द्वाविति किमर्थम्, न चैषाम् अन्योऽन्यस्येत्यनेनान्वयात् सर्वेषामाकारादिलृकारपर्यन्तानां सवर्णसंज्ञेति वाच्यम्, बहूनामेकत्रानवस्थानात् । न च देवदत्तागमनम् इत्यत्र बहूनामेकतः सम्भवोऽस्ति । ततश्च सर्वेषां सवर्णत्वे सर्वेषामेव लोपः स्यादिति वाच्यम्, व्यञ्जनैर्व्यवधानात् सवर्णाविति द्विवचनाच्च । यद्येवं व्यवहितयोरपि स्यादिति ? सत्यम्, द्वौ द्वौ - ग्रहणसत्त्वेऽपि व्यवहितयोः कथन्न भवति ? वर्णसमाम्नायस्य क्रमसिद्धत्वादिति चेदत्रापि स एव न्याय्य इति ।
५८
यद्येवम्, तेषां-ग्रहणेन सामान्यव्यक्तिप्रतिपादकत्वेन क्रमाविवक्षायां द्वौ द्वावित्यत्र वीप्साबलात् खण्डशः प्रतीतिः । इकारोकारयोः सवर्णत्वं निराकृतम् । तत् कथमेतदभावे एतदर्थप्रतीतिः स्यादिति चेत्, न । असवर्णे यत्वादिविधानस्य विफलत्वात् । ननु कथं विफलत्वं दध्येतद् इत्यादिषु चरितार्थत्वादिति चेत्, न । मूर्ख ! भ्रान्तोऽसि । पश्य " उवर्णे ओ" (१|२| ३) इत्यादौ हि वर्णग्रहणे सवर्णग्रहणमिति वक्ष्यति, ततः सर्वेषामेव सवर्णत्वे सर्वेषामेव सवर्णादिति (सवर्णादित्वम्) वाच्यं स्यात्, ततो दध्येतद् इत्यादिषु यत्वादिविधायकानां सूत्राणामेकदैव प्रवृत्तिसम्भवे परस्परविरोधान्न कस्यापि प्रवृत्तिः स्यादिति, किञ्च एत्वादिभिराघ्रातत्वात् । कुत्र वा समानः सवर्णे दीर्घः स्यात्, कुत्र वा एत्वादिविधिरिवणदिरप्यवर्णत्वात् ।
न च सर्वत्र पक्षे सर्वविषयो भविष्यतीति वाच्यम्, असवर्ण इत्यादिविभागकल्पनावैयर्थ्यात् । यद्येवं द्वौ द्वावित्यस्याभावाद् वीप्सार्थः कुतो लभ्यत इति चेद्, अविशेषात् संज्ञिनां बहुत्वात् सापि लभ्यत एव । नैवम्, प्रतिपत्तिर्गरीयसीति । तस्मादुक्तस्यैवात्र हेमकरकृतपूर्वपक्षसिद्धान्तोऽनुसन्धेयः । यद्येवम्, तेषां ग्रहणेन नाक्रमक्रमव्यक्तौ प्रतिपादितायां सत्याम् अन्वर्थबलाद् हस्वयोर्द्वयोर्दीर्घयोरेव सवर्णसंज्ञा स्यात्, नासमानयोर्दीर्घह्रस्वयोरिति कथं न स्यात् ? सत्यम्, रूढेर्योगापहारितेति न्यायाद् रूढ्या योगार्थस्त्यज्यते मण्डपादिशब्दवत् ।
ननु अन्योऽन्यग्रहणं किमर्थम् ? सत्यम्, क्रियाव्यतीहारार्थम् । तथाहि, अन्योऽन्यस्येति पदात् पूर्वपिक्षया परः, परापेक्षया पूर्वः, न तु द्वावेव सवर्णस्तदभावे द्वावेव सवर्णौ स्यातामिति । ततश्च सवर्णे दीर्घो भवन् 'छात्र ! अ अपेहि, दधि इ इन्द्रं पश्य' इत्यादिष्वेव स्यात्, न दण्डाग्रम् इत्यादिषु एकतरस्यासवर्णत्वात् । अथ मिलितयोः सवर्णत्वे द्विवचनस्यानन्वयः । ‘अग्नीषोमो देवता' इतिवत् सवर्ण एकवचनान्त एव निर्दिश्यताम्