________________
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
इति पठित्वा स्वरसंज्ञानन्तरमिदं क्रियताम्, एतदेव एवकारेण सूचयन्नाह तेषां दशानामेव इति वृत्तिः ।
५७
ननु 'समानाः' इति बहुवचनान्तम्, द्वौ द्वाविति द्विवचनान्तम्, अर्थवशाद् विभक्तीनामेव विपरिणामो दृश्यते (कात० परि० वृ० २५, १३), न तु वचनानामिति । तस्मात् तेषां ग्रहणं विना कथमर्थसङ्गतिः स्यादित्याह-ह-अथवा इति । ( एतच्च न चारुतरम्, यतो निर्धारणमन्तरेणापि सूत्रार्थसम्भवात् तस्मादत्र पक्षे वचनव्यत्ययं दृष्ट्वा विभक्तिव्यत्ययेनैव वचनं यदुक्तं तदेव साधु । अत्र यद्यपि पूर्वश्रुतसङ्ख्याबाधो वा प्रथमाबाधो वा इत्यत्र विनिगमकाभाव:, तथापि यस्तु मन्यते अर्थवशाद् विभक्तिव्यत्ययमात्रम्, न तु वचनव्यत्ययस्तन्मतेऽयमेव पक्षः साधीयानित्यवधेयम् । तेषामित्यादीति । तेषां ग्रहणस्य यावद्व्यक्तिप्रतिपादकत्वाद् दश जात्यालिङ्गिता यावद्व्यक्तयः सम्भवन्ति तावत्य एव इह गृह्यन्त इति भावः ) ।
नन्वित्यादिना कृतं पूर्वपक्षं निरसितुमाह नैतदस्ति इति । एतत् पूर्वपक्षकृतं चोद्यं नास्तीति, किन्तु असमानयोरेव ह्रस्वदीर्घयोरन्वर्थाभावेऽपि स्यात् । कुत इत्याह - 1 वचनबलाद् इत्यन्वयः । तेषाम् इत्यादि । द्वौ द्वावित्यत्र क्रमविवक्षायां तावद् भवत्येव, तेषां-ग्रहणेन तु व्यक्तेः प्रतिपादितत्वात् क्रमाविवक्षायामपि भवतीत्यर्थः । ननु तथापि कथमेकस्याप्यनेकत्वमित्याह - व्यक्तिद्वारेण भिन्नयोः इति । ननु तेषां - ग्रहणस्य सामान्यव्यक्तिप्रतिपादकत्वेन क्रमाविवक्षायाः साधितत्वाद् अकारादिना इकारादेः सवर्णत्वं कथन्न स्यात् । एत्वादिभिराघ्रातत्वादिति चेत् तदा इकारादेरेकारादिना सवर्णसंज्ञा स्यात् ? सत्यम्, संज्ञायां दध्यत्रेत्यादिषु दीर्घः स्यात्, 'दध्येतद्' इत्यादिषु यत्व - विधेश्चरितार्थत्वम् ।
न च एकारैकारयोः पूर्वभागोऽकारः परभागश्चेकारः इति न्यायात् सन्ध्यक्षरेऽपि अकारभागस्य सत्त्वात्तत्रापि सवर्णत्वेन यत्वं न स्यादिति वाच्यम्, समानानुवृत्तिबलात्, संपृक्तसमानस्य ग्रहणात् । अन्यथा व्यावृत्तिरेव नास्ति ? सत्यम्, द्वौ द्वौ - ग्रहणसामर्थ्यात् खण्डशः एव प्रतीयमानौ यौ द्वौ द्वौ क्रमसिद्धौ तयोर्या व्यक्तयः श्रुतत्वात् तास्वेव क्रमचिन्ता नान्यत्र । अन्यथाऽविशेषात्ते सवर्णा इति क्रियतां किं द्वौ द्वाविति विशेषवचनेन । नच क्रमपठितानामेव व्यक्तिक्रमः सम्भवति, न चात्राकारो व्यक्त्यर्थक्रमेण पठित इति वाच्यम्, यतः क्रमाविवक्षायामित्यत्र क्रमाभावमात्रे तात्पर्यम् इति हेमकरस्य दुराशयः । तन्न, द्वौ द्वावित्यस्य सुखार्थत्वात् ।