________________
कातन्त्रव्याकरणम्
भिन्नयोर्हस्वयोर्द्वयोर्दीर्घयोश्च सवर्णसंज्ञा सिद्धेति भावः । व्यक्त्यर्थमिति । व्यक्तिरर्थः प्रयोजनमस्येति विग्रहः || ४ | [क० च०]
I
तेषाम् । द्वौ द्वाविति वीप्सायां द्विर्वचनन्, सा पुनरिह सवर्णगुणेनैव । ननु सङ्ख्याया गुणत्वाभावात् कथं सवर्णगुणेनैवोक्तम् इति ? सत्यम्, सञ्ज्ञात्र गुणः, तस्याः शास्त्रे गुणवदुपचारादिति कुलचन्द्रः । तन्न । सञ्ज्ञा हि अभिधायिकोच्यते, सा च शब्दरूपा, शब्दश्च गुण एव । द्वौ द्वौ वाच्यवाचकभावसम्बन्धेन सवर्णशब्दवाच्यौ भवतः । द्वौ द्वावित्येकपदमित्यादि शब्दवेदिनः । पदद्वयमिति द्विरुक्तिवादिनः, उभयमेव प्रमाणम् । ‘श्वलिट्, श्वलिट्’ इत्यत्र एकपदत्वे छकारादर्शनात् । “नवानधोऽधो बृहतः पयोधरान्” (शिशु० १।४) इत्यत्रैकपदत्वाभावेऽकारलोपदर्शनात् । तेषां समानानां मध्ये यौ द्वौ द्वौ क्रमसिद्धौ तावन्योऽन्यस्य परस्परापेक्षिसवर्णशब्दवाच्यौ भवत इत्यर्थः । तेनाकारापेक्षयाऽऽकारस्य सवर्णत्वमाकारापेक्षया अकारस्येति, एवं सर्वत्र ।
५६
ननु तथापि वर्णसमाम्नायस्य क्रमसिद्धत्वात् क्रमस्थितयोरेव सवर्णत्वं न व्यतिक्रमस्थितयोरिति कथं न स्यात् ? ततश्च तवागमनम् इत्यत्रैव दीर्घः स्यान्न सात्रेति । नैवमक्रमव्यक्तिप्रतिपादकेन तेषां ग्रहणेनैव तदपि निराकृतम् । एतदेव ह्रस्वयोर्द्वयोर्दीर्घयोश्चेत्यत्र द्वयोरुपादानाद् वृत्तिकृतापि सूचितमिति केचित् । परमार्थतस्तु यदानुपूर्व्या संज्ञा विधीयते तदानुपूर्व्येव संज्ञाव्यवहार इति नियमो नास्त्येव, कथमन्यथा “पूर्वो ह्रस्वः” (१।१।५) इत्यनेन पूर्वत्वविशिष्टस्य संज्ञाविधानाद् यत्र कुत्रचित् स्थितस्यापि अकारादेर्हस्वत्वेन व्यवहार इति ।
ननु द्वौ द्वावित्युक्तेऽपि अकारेकारयोः सवर्णत्वं कथन्न स्यात् ? न च भवतु वा (यद् अवर्ण इवर्णे ए (१।२।२) इत्यनेन एत्वेनैव भाव्यं न तु समानदीर्घो भवतीति वाच्यम्) तथापि एत्वेन भवितव्यमिति ? सत्यम्, 'तव इयम्, सा ईहा' इत्यत्रैव चरितार्थत्वाद् नैवं वीप्सायाः (सामर्थ्यात्) स्वभावाद् द्वौ द्वाविति इतरानपेक्षत्वेन खण्डशः प्रतीतेः। ननु तेषां ग्रहणाभावे 'विशेषातिदिष्टः प्रकृतं न बाधते' (कात० परि० वृ० १९, ५४) इति न्यायाद् वर्णसमाम्नायस्यानुवृत्तिः कथं न स्यात् ? नैवम् । एवं सति ‘“सिद्धो वर्ण०” (१।१।१) इत्यस्यानन्तरमेव विदध्यात् । अथ तर्हि तेषां ग्रहणाभावाद् व्यवहिताः स्वरा अनुवर्त्यन्ताम्, यथा “ तस्माद् भिस् भिर्’” (२।३।३८) इति, नैवम् । तदा ‘“परो दीर्घः” (१।१ । ६) इत्यस्यानन्तरं “दश समानाः” (१ । १ । ३)
"