________________
सन्धिप्रकरणे प्रथमः सञ्जापादः भावे तत्वौ प्रसज्येते । यथा देवदत्तत्वं तथा अत्वं कत्वमिति । अथ वर्णसमाम्नाये प्रस्तुतयोरेव ह्रस्वदीर्घयोः सवर्णत्वं तदा पारिभाषिकत्वाद् धान्याढकः इत्यादिष्वेव दीर्घ उपपद्यते, नतु दण्डाग्रम् इत्यादिष्विति ? सत्यम्, तदर्थमेव तेषां ग्रहणम् । अन्यथा अनन्तरत्वाद् द्वौ द्वौ समानौ वर्णौ भवन्तौ तेषां समानसंज्ञकानां मध्ये द्वौ द्वौ अव्यवहितावेव सवर्णौ भवत इत्याह – तेषां ग्रहणम् इत्यादि । ।
ननु बहूनामेकत्रानवस्थानाद् व्यञ्जनैर्व्यवहितत्वाच्च द्वौ द्वावेव सवर्णौ भवितुमर्हतः, किं द्वौ द्वावित्यनेन ? न च वक्तव्यम्, व्यवहितसम्बन्धः स्यादिति, तर्हि सत्यपि द्वौ-द्वौ ग्रहणे कथं न भवति वर्णसमाम्नायस्य क्रमसिद्धत्वादसत्यपि स एव न्याय्य इति । किञ्चासवर्णे यत्वादिकं विफलम् अवशिष्टत्वाच्च वीप्सार्थो गम्यते एव । नैवं प्रतिपत्तिरियं गरीयसी भवतीति । अन्योऽन्यस्येति क्रियाव्यतीहारार्थम्, अन्यथा द्वयोरेव सवर्णत्वं स्यात् । ततश्च सवर्णे दीर्घत्वं 'छात्र अ अपेहि, दधि इ. इन्द्रं पश्य' इत्यादिष्वेव प्रकृतिः पुनरसवर्णे प्रयोजनवती, यथा-अ इति ।
ननु समाने दीर्घाभवति इत्युक्ते 'क्व पुनरस्या आवर्तनम् अस्ति' इति चेत्, सवणपिक्षयाऽप्यसवर्णःप्रतिपत्तव्यः,स खलु लोकोपचारादिति चेत्, सवणपिक्षयाऽप्यसवर्णः प्रतिपत्तव्यः, स खलु लोकोपचारादिति चेत्, एवं ह्रस्वस्य दीर्पणासवर्णत्वमेवेत्युक्तं दधीहनम् इत्यादिषु यत्वादिकं स्यादिति ।।४। __ [वि० प०]
तेषाम् । अथ तेषां-ग्रहणं किमर्थम्, अनन्तरत्वात् समाना एवानुवर्तिष्यन्ते, ततो द्वौ द्वौ समानौ सवर्णों भवत इत्यर्थः । अथ वा निर्धारणार्थविवक्षायामर्थवशाद् विभक्तिविपरिणामे सति तेषां समानानां मध्ये यौ द्वौ द्वौ क्रमसिद्धौ, तावन्योऽन्यस्य सवर्णाविति सूत्रार्थ इत्याह - तेषाम् इत्यादि ।
___ अयमर्थः - वर्णसमाम्नायस्य क्रमसिद्धत्वाद् ह्रस्वदीर्घयोरेव सवर्णसंज्ञा स्यात्, न तु हस्वयोर्द्वयोश्चेति ततो धान्याढकः इत्यादिष्वेव दीर्घः स्यान्न तु दण्डाग्रम् इत्यादिष्विति ।
ननु समानो वर्णः सवर्णः इत्यन्वर्थे सवर्णशब्दे सति कथं ह्रस्वदीर्घयोरेव सवर्णसंज्ञा स्यात्, असमानत्वादनयोरिति ? नैतदस्ति, वर्णसमाम्नायक्रमसिद्धत्वाद् वचनबलादेवासमानयोरपि स्यात् तेषां-ग्रहणे तु व्यक्तेः प्रतिपादितत्वात् क्रमाविवक्षायामपि व्यक्तिद्वारेण