________________
सन्धिप्रकरणे प्रथमः सज्ञापादः स्वराः सन्धेयाः” (१।२।१८) इत्यनेन सन्धिप्रतिषेध एव फलं स्यादिति, नैवम् | कारशब्दस्य स्वरूपप्रतिपादनफलत्वाद् विकृतिर्न भवतीति हेमकरः। तन्न । तवल्कार इत्यत्र विकृतिविलोकनात् । सिद्धान्तस्तु “लम् लवर्णः” (१।२।११) इति ज्ञापकात् टुकारस्य व्यञ्जने सन्धिर्न भवतीति ।
अन्ये तु “न व्यञ्जने स्वराः सन्धेयाः' (१।२।१८) इत्यत्र स्वरग्रहणमपनीय अव्यञ्जनग्रहणं कृत्वा अव्यञ्जनानि न सन्धेयानि इति वदन्ति । तथापि नातिपेशलम्, स्वरपदमपहाय अव्यञ्जनपदपक्षे प्रमाणाभावात् । प्रत्युत गौरवापत्तेः । ननु तथापि लकारस्य स्वरसंज्ञायाः प्रयोजनमस्त्येव, कथमन्यथा अचीक्लृपद् इत्यादावेकस्वरत्वाभावे क्लृपेर्दिवचनम् ? सत्यम्, इनन्तक्लृपेर्द्विवचनेऽभ्यासलोपे ऋवर्णस्याकार इत्यत्र तु वर्णग्रहणसामर्थ्याद् लोकोपचाराद् ऋकारलृकारयोः स्वरसंज्ञत्वात् लकारस्यापि अकारे सति सन्वद्भावादित्वे "दी? लघोः" (३।३।३६) इति दीर्घत्वे सति सिद्धम्, तर्हि कथं चक्लृपिव इति ? सत्यम् | स्वरविधिः स्वरे (३।८।३०) इति न्यायात् स्वरावस्थायामेव स्वराधैर्विचने पश्चाल्लश्रुतिः।
यद्येवं व्यञ्जनादौ का वार्ता ? यथा चिक्लृप्सत इति ? सत्यम्, अत्रापि सना सह द्विर्वचनमिति संक्षेपः । तथेति । होतृकार इत्यादि प्रयोगे दीर्घस्यापीति स्वरत्वे फलं नास्तीति शेषः । यथा 'अहो तृतकः' इत्यत्रेति ।इतिशब्दोऽन्वयवशादुभयत्र संबन्धनीयः । अथान्वयाश्रयणं कष्टमित्याह - किञ्च इति । तस्माद् अनुकार्यानुकरणयोर्भेदेन शब्दान्तरत्वादनुकार्यभिन्नत्वादित्यर्थः । ननु यावता अर्थभेदेन शब्दान्तरत्वं तावता शब्दसाम्येऽपि एकशब्दत्वं स्यादित्याह - शिष्टप्रयुक्तत्वाच्च इति ।
ननु अचकलाकद् इति कथं क्लृप्धातोः सम्पदादित्वाद् भावे क्विपि कृते कलायाः क्लृप् ‘कलाक्लृप्' इति स्थिते तामकार्षीदितीनि कृते लृकारस्यास्वरत्वे अकारमादाय अन्त्यस्वरादिलोपः स्यादिति । न चान्त्यव्यञ्जनादेर्लोप इति कर्तव्यमिति वाच्यम्, गौरवापत्तेः । यत्र यत्र स्वरग्रहणं तत्र तत्राव्यञ्जनग्रहणेनैवार्थसिद्धौ संज्ञाविधानवैफल्याच्च । सत्यम्, अनुकरणवादिनो मते योषिद् लकारं पठति इत्यादिवदेतदपि दूषणान्तरमेव । नैवमित्यादि । यद्यपि अनुकरणयोरित्यादौ व्यञ्जनस्याप्यर्थप्रतिपादनेऽन्यापेक्षा नास्ति, तथापि उच्चारणेऽवश्यमन्यापेक्षयाऽर्थप्रतिपादनेऽपि तथोच्यते । अर्थपदं स्वरूपातिरिक्तपरमित्येके । ___ ननु चतुर्दशग्रहणं किमर्थम्, अन्वर्थबलाच्चतुर्दशानामेव भविष्यति । तथा च वररुचिः