________________
४८
कातन्त्रव्याकरणम्
दार्टान्तस्तत्पुरुषः ? सत्यम्, सहार्थे तृतीयायाः समासाभिधाने दृष्टान्तितं न तु समासे । 'लुकारः क्लृप्तिस्थ एव प्रयोगीति एवशब्देन स्वरत्वप्रयोजनकर्तव्यतया शक्यमानम् - अनुकरणमेव व्यावर्तते, क्लृप्तपदं स्वरसञ्ज्ञाप्रयोजनरहितस्थानोपलक्षणं स्वरत्वप्रयोजनरहितस्थान एव लृकारः प्रयोगीति तात्पर्यार्थः । तेन क्लृप्तिस्थ एव लकारः प्रयोगी नान्यत्रेति नियमे टुकार इति प्रयोगे कथमुच्चार्यते लुकार इति देश्यमपास्तम्, न चेह स्वरत्वे फलमस्तीति । ननु कथमिदमुच्यते यावता क्लृप्त इत्यत्र स्वरत्वे सति “न व्यञ्जने स्वराः सन्धेयाः" (१।२।१८) इत्यनेन “लम् लुवर्णः” (१।२।११) इत्यनेन विहितस्य लत्वस्य निषेध एव फलम् ? सत्यम्, अन्यत्र प्रयोजनाभावमाचक्षाणेन “लम् लवर्णः" (१।२।११) इति लत्वविधानमपि निरस्तम् । अस्य तु मते लनुबन्धो लाकृतिरिति प्रयोगोऽसम्मत एव ।
अथ क्लृप्तिस्थ एव लकारः स्वरूपेण प्रयोगीति यन्मतं तन्मते लनुबन्धो लाकृतिरिति सिद्ध्यर्थं लत्वविधानं कर्तव्यमेव, तथापि रश्रुतेर्लश्रुतिरिति वचनान्न लत्वम् । तथाहि ‘कृपे रो लः” (३।६।९७) इत्यत्र प्रश्लेषेण पक्षान्तरं व्याख्यायते, तद् यथा ऋकारादकारमुच्चार्य 'र' इति पदम् । ततश्च ऋकारस्य टुकारो भवतीत्ययमर्थः प्राप्तः ।
एवं च सति यदि क्लृप्तः, क्लृप्तिरित्यत्र ऋकारस्य लुकारे कृते “लम् लुवर्णः" (१।२।११) इति लकारो भविष्यति, तदा किमर्थं प्रश्लेषव्याख्यायाम् ऋकारस्य टुकारविधानम्, 'र' इत्यत्र प्रश्लेषव्याख्यया ऋकारस्य यथाश्रुत एव लकारो विधीयताम्, एवं च प्रक्रियालाघवं च भवति तस्माद् अत एव टुकारविधानात् क्लृप्त इत्यादौ "लम् लुवर्णः” (१।२।११) इति लकारो न वर्तते । अतो लृकारस्य स्वरत्वेन न किञ्चित् फलमस्तीति युक्तमुक्तं पञ्जीकृता । ननु तथापि लुकार इत्यत्र लुकारशब्दे परे "न व्यञ्जने
तृतीयः पुनः पक्ष इति । ननु बहुव्रीहिसूत्रे बहुग्रहणं बोधयति बहूनां बहुव्रीहिरेवेति नियमात् त्रिपदे कथं तत्पुरुषः ? सत्यम्, चतुर्भिरधिका इति समासे पश्चाद् दशशब्देन कर्मधारयः, ततोऽन्तर्वर्तिनीं विभक्तिमाश्रित्याधिकपदस्य लोपः पदलोपं प्रति कश्चिद् युक्तिमाह, तथाहि "तत्स्था लोप्याः" (२।५।२) इत्येकयोगः, "विभक्तयः" (२।५।२) इति द्वितीयः । ततश्च पूर्वविधेर्लक्ष्यानुसारित्वात् शाकपार्थिवादौ अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदस्यापि लोप इति । शकनं शाकः, स एव प्रधानं यस्य सः, शाकप्रधानश्चासौ पार्थिवश्चेति कर्मधारयः । शाकपार्थिवादौ चतुर्दशशब्दोऽपि द्रष्टव्य इति दिक् ।