________________
४७
सन्धिप्रकरणे प्रथमः सजापादः चतुर्दशत्वात् कुतः साहित्याशङ्का ? नैवम् । उत्तरशब्दोऽत्र चतुण्ाँ ग्रहणापेक्षया पश्चात्कालीनवचनः, तेन उत्तरे उत्तरकालीना ये ग्रहीतव्या इत्यर्थः । यद् वा किमिह वर्णसमाम्नायादिभूतेषु चतुर्पु गृहीतेषु उत्तरे उवर्णादयो गृह्यमाणास्तैरेव चतुर्भिः सह दशत्वसङ्ख्याविशिष्टा गृह्यन्ते, उत तद्भिन्ना इत्येतदेवाह - यदुत्तर इति ।
यद्येवम् उभयशब्दयोरेकार्थप्रतिपादकत्वाद् द्वन्द्व एव कथम् ? तथाहि नाम्नां युक्तार्थो हि द्वन्द्वः, स च भिन्नार्थानामेव भवति, एकार्थानामेकदा प्रयोगाभावात्, न हि भवति वृक्षद्रुमाविति ? सत्यम् । एकार्थानामपि प्रवृत्तिनिमित्तभिन्नानां यः समुच्चयः सोऽपि द्वन्द्वो भवेदिति । तथा चाभिधेयनिवृत्तिप्रयोजनधनेष्विति पञ्जी, कथमन्यथा निवृत्त्यादीनां सर्वेषामभिधेयवाच्यानां द्वन्द्वः स्यादिति । __अथ चतुर्ग्रहणोपादानवैयर्थ्यं स्यात् चेत्, न । अत्र चतुर्ग्रहणं दत्त्वा चतुर्दश इति विभागेन यदुपादानं तदुत्तरत्रैव चतूरहिता दश एवानुवर्तन्त इति ज्ञापनार्थम् । एतेनान्यूनातिरिक्तपदेनार्थद्वयस्य शास्त्रे एकस तयैव व्यवहारसिद्धेः पुनस्तेषामेव दशानां सर्वेषामभिधेयशब्दवाच्यानां समानसंज्ञोपादानमनर्थकमित्यपि चोद्यमपास्तम् । ___ अथ द्वन्द्वः स्वपदप्रधानः, अत्र मुख्यं धर्मिणमपेक्ष्य समुच्चयसंभवे गोणरूपं प्रवृत्तिनिमित्तसमुच्चयं परिकल्प्य कथं शङ्कावतार इत्याह - अथ इत्यादि । सन्देह एव कथमिति । तथाहि - “दश समानाः” (१।१।३) इत्यत्रायमेव दशशब्दः प्रवर्तते एकारमपेक्ष्य दशानामादित्वं प्रतिपादयन्, तद्वदत्रापि तदपेक्षया आदित्वम् बोधयेत्, ततश्च केवलानां दशानामेव स्यादिति शङ्काबीजम् । यद् वा आदिशब्दोऽयमेकत्वात्, यदकारावच्छेदेन चतुर्णामादित्वं बोधयति, तदकारावच्छेदेनैव दशानामपि आदित्वं बोधयतीति संमोहः ।
यद् वा आदौ चत्वारो दश चेति वाक्ये सकृदुच्चरितः शब्दः सकृदर्थं गमयतीति न्यायात् । यद्येवं चतुर्णामेवादित्वं बोधयेत्, तदा यत्र कुत्र स्थितानां दशानां ग्रहणं स्यादिति संमोहः स्यादिति तमेव निरसितुमाह- यद्येवम् इत्यादि ।चतुःशब्ददशशब्दयोरादित्वापेक्षत्वात् समासो न स्यात्, तत्र वक्तव्यं सापेक्षेऽपि समास इति प्रतिपत्तिगौरवं स्यादिति कश्चित् । (चतुर्णां सर्वापेक्षयैवादित्वं दशानां तु किञ्चिदपेक्षया इत्युभयपृथगपेक्षया आदिशब्दान्वये वाक्यभेदेन प्रतिपत्तिगौरवं स्यादिति भट्टः)।
वस्तुतस्तु आवृत्तिं परिकल्प्य प्रत्येकमभिसम्बन्ध एव प्रतिपत्तिगौरवं स्यादिति । सह दशभिरिति । ननु कथं दृष्टान्तदान्तियोः समता | तथाहि दृष्टान्तो बहुव्रीहिः,