________________
४
कातन्त्रव्याकरणम्
ननु 'प्रकृतिवदनुकरणं भवति' (व्या०परि०सू०,परि०८६), तत् कथमसाधुशब्दस्यानुकरणं साधु भवितुमर्हतीति ? सत्यम्, प्रकृतिवदनुकरणमित्यत्र शास्त्रीया प्रकृतिराश्रिता, न चाशक्तिजमसाधुशब्दरूपं शास्त्रीया प्रकृतिः । किं च प्रकृतिवदिति कार्यातिदेशोऽयम्, कार्यं च शास्त्रीयमेवातिदिष्टमभिप्रेतमाचार्यैः । न चासाधुशब्दरूपं शास्त्रविहितं कार्यम्, शास्त्रस्य साधुशब्दसंस्कारायैव प्रवृत्तत्वात् । तस्मादर्थभेदेन शब्दान्तरत्वात् शिष्टप्रयुक्तत्वाच्चानुकरणं साधु, तदन्यदसाधुशब्दवदिति स्थितम् । मतमिति मतान्तरमित्यर्थः ।
अयं पुनर्मन्यते अकारादीनामिव लूवर्णस्यापि स्वरसंज्ञाया मुख्यमेव प्रयोजनमस्ति । यथा 'अमू लृकारं पश्यतः, अमी ठुकारं पश्यन्ति' इति “द्विवचनमनौ, बहुवचनममी" (१।३।२, ३) इति स्वरे प्रकृतिर्भवतीति । 'लुच्छाया' इत्यादिषु स्वरपरत्वाच्छकारस्य द्विर्भावः सिद्धः। तथा 'योषिद् लृकारं पठति, विद्युद् टुकारायते' इत्यादिषु "वर्गप्रथमाः०" (१।४।१) इत्यादिना स्वरे तृतीयश्चेति, एवमन्यत्रापि | स्वर इति महतीयं संज्ञा अनुगतार्था सुखार्थमन्वाख्यायते । स्वयं राजन्ते इति स्वराः । एकाकिनोऽप्यर्थप्रतिपादने समर्थाः। तथापि लिङ्गधातुनिपातानामसहायानामप्यर्थप्रतिपादने सामर्थ्यमुपलभ्यते, नैवं व्यञ्जनानामिति ।।२।
[क० च०]
तत्र । तत्रेति लुप्तप्रथमैकवचनम् इति सम्प्रदायः । वस्तुतस्तु लुप्तसप्तमीकं पदम् | तथाहि “अव्ययाच्च" (२।४।४) इति ज्ञापकात् पदसंज्ञार्थं विधीयमाना विभक्तिः स्वार्थ एव विधीयते, स्वार्थश्चात्र अधिकरणरूपः। अत एव तदर्थप्रतिपादिका औचित्यात् सप्तम्येव प्रवर्तते, न तु प्रथमा । तथा च तत्रकृतं तत्रभुक्तमिति सप्तमीसमासप्रस्तावे दर्शितं टीकाकृता । अथ अनन्तरत्वाद् वर्णसमाम्नाय एवानुवतिष्यते किं तत्रेत्यनेनेत्याहतत्र इत्यादि । अन्ये तु आदिशब्दस्य सम्बन्धात् तस्य इति षष्ठी युज्यते इत्याह - तवेत्यादि ।
'अथ कथमत्र समास इति, कः प्रकारः समास इत्यर्थः। सत्यमित्यादि । ननु चतुर्पु गृहीतेषु तेषामुत्तरे दश ग्रहीतव्या इत्युक्ते उकाराद्यौकारान्तानां ग्रहणं युक्तं तेषामेव
१.ननुतथापि तत्रेति न क्रियताम्, अनन्तरत्वाद् वर्णसमाम्नायोऽनुवर्तिष्यते यतस्तच्छब्दस्थितावपि विभक्तिविपरिणामस्यावश्यकता सप्तम्यन्तत्वेनान्वयार्थम् । अतोऽत्र तत्रशब्दमधिकृत्यार्थवशादित्याश्रयणे गौरवमित्याह – यदि पुनरिति । सप्तमीनिर्देशेनेति सप्तमीनिर्देशो येन अर्थवतस्तु समाम्नायात्तेन तत्र किमित्यर्थः । अस्याः पङ्क्तेः पूर्वोक्तक्रमेणैव ।