________________
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
तत्रस्थस्य लृकारस्य स्वरसंज्ञा यथा स्यात् । अतो ऋतक इति प्रयोक्तव्ये शक्तिवैकल्याद् अहो ॡतक इति केनचित् प्रयुक्तम्, तदन्योऽनुकरोति 'अहो कृतकः' इति स्वरे प्रकृतिर्भवति इत्याह - यथानुकरण इत्यादि ।
४५
एवम् 'अहो कृतकः' इति मतं मतान्तरमेव, तन्न वयं मन्यामहे । मुख्य एव लृकारः सम्भवति । यथा अमू लृकारं पश्यतोऽमी लृकारं पश्यन्तीति । लृच्छाया, लुच्छाया । स्वरात् परश्छकारो द्विर्भावमापद्यते । योषिद् लृकारं पठति, विद्युद् लृकारायते इति स्वरे तृतीयश्च | यदृच्छाशब्दश्चास्ति अहो कृतकाख्य इति । आदिग्रहणं मध्यान्तनिवर्तनेन सुखप्रतिपत्त्यर्थम् इति ||२| [वि० प० ]
तत्र । तत्र इत्यनेन वर्णसमाम्नायो विषयतया निर्दिश्यते इत्याह- तस्मिन् इति । यदि पुनरर्थवशात् सप्तम्या विपरिणामो भविष्यति, किं तत्रेत्यनेन सप्तमीनिर्देशेनेति उच्यते, तदा सुखार्थं भवतीति । अथ कथमत्र समास :- किं चत्वारश्च दश चेति द्वन्द्वः ? उतस्वित् चतुर्भिः सह दश ? आहोस्वित् चतुर्भिरधिका दश चतुर्दश इति ? सत्यम्, न तावद् द्वन्द्वोऽयं यदुत्तरे दश गृह्यमाणाः किं पूर्वैश्चतुर्भिः सह गृहीतव्या उत भिन्ना एवेति सन्देहः स्यात् । अथ द्वन्द्वस्य स्वपदप्रधानत्वात् कथमेवमाशङ्केति चेत्, सत्यमेतत् | किन्त्वतिमन्दबुद्धयः सन्दिहीरन्निति । यद्येवमादौ चत्वारश्च पुनरादौ दश चेति आदिशब्दस्य प्रत्येकमभिसंबन्धः करिष्यते ? सत्यम्, तथापि प्रतिपत्तिगौरवं स्यात् । द्वितीयः पुनः पक्षः सहार्थतृतीयायाः समासस्यानभिधानान्निरस्तोऽयम् । यथा ‘सहैव दशभिः पुत्रैर्भारं वहति गर्दभी' इत्यनभिधानादिति । तृतीयस्तु पक्षो न्याय्य एव, शाकपार्थिवादिदर्शनान्मध्यमपदलोपी समासः ।
नन्विह लृकारस्य स्वरसंज्ञायाः किं प्रयोजनम् ? लृकारः क्लृप्तिस्थ एव प्रयोगी | यथा क्लृप्तिरिति । न चेह स्वरत्वे फलमस्ति, तथा लृकार इत्यादिप्रयोगे दीर्घस्यापीति ? सत्यम् | यद् अशक्तिजमसाधुशब्दरूपं तदनुकरणस्यापि साधुत्वमिष्यते । यथा 'अहो ऋतकमानय' इति प्रयोक्तव्ये शक्तिवैकल्याद् 'अहो ॡतकमानय' इति केनचित् प्रयुक्तम् । तत्समीपवर्ती किमयमाह इत्यपरेण पृष्टस्तत्र अहो कृतकमानय इत्याह इति कथयति । तत्र च लृकारस्य स्वरसंज्ञया " ओदन्ता अ इ उ आ निपाताः " ( १ । ३ । १ ) इत्यादिना ओकारस्य स्वरे प्रकृतिर्भवतीति । तस्माद् येन प्रकारेण ह्रस्वलृकारः स्वरसंज्ञायां सप्रयोजनो विद्यते, तेनैव दीर्घोऽपीति । यथा 'अहो ॡतकः' इति वक्तुम् आह - यथानुकरण इत्यादि ।